SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ उज्जयं २९ । सुपसत्था विहगगई ३० तसाइदसगं च ४० निम्माणं ४१ ॥ ८५ ॥ तित्थयरेणं सहिया पुन्नप्पयडीओ हुंति बायाला ४२ । सिवसिरिकडक्खियाणं सयावि सत्ताणमेयाउ ॥ ८६ ॥ सातं—सातवेदनीयं तथा उच्चैर्गोत्रं तथा नरायुस्तिर्यगायुर्देवायुश्च तथा एताश्च नामकर्मप्रकृतयस्तद्यथा - मनुष्यद्विकं - मनुष्यगतिमनुष्यानुपूर्वीलक्षणं देवद्विकं देवगतिदेवानुपूर्वीलक्षणं पञ्चेन्द्रियजातिः तनुपञ्चकं औदारिक वैक्रियाहारकतैजसकार्मणलक्षणं अङ्गोपाङ्गत्रिकंऔदारिकवैक्रियाहारकाङ्गोपाङ्गलक्षणं, संहननं वर्षभनाराचाख्यं प्रथमं चैव संस्थानं समचतुरस्राख्यं, तथा वर्णादिचतुष्कं - वर्णगन्धरसस्पर्शस्वरूपं सुप्रशस्तं - शुभं, तत्र वर्णाः शुकुपीतरक्ताः गन्धः सुरभिः रसा मधुराम्लकषायाः स्पर्शा मृदुलघुस्निग्धोष्णा इति, अगुरुलघु पराघातं उच्छ्रासं आतपं उद्योतं सुप्रशस्ता विद्दायोगतिः त्रसादिदशकं च- त्रस बादरपर्याप्तप्रत्येकस्थिर शुभसुभगसुखरादेययशः कीर्तिलक्षणं निर्माणं च एता एव तीर्थकरनाम्ना सहिता द्विचत्वारिंशत्पुण्यप्रकृतयः शुभसंज्ञिकाः प्रकृतयो भवन्ति एताश्च शिवश्रीकटाक्षितानां सत्त्वानां सदैव प्राप्यन्त इति ॥ ८३ ॥ ८४ ॥ ८५ ॥ ८६ ॥ २१९॥ इदानीं 'वासीई पावपयडीओ 'त्ति विंशत्युत्तरद्विशततमं द्वारमाह Jain Education International नाणंतरायदसगं १० दंसण ११ मोहपयइ छबीसा २६ । अस्सायं निरयाउँ नीयागोएण अडयाला ॥ ८७ ॥ नरयदुगं २ तिरियदुगं ४ जाइचक्कं ८ च पंच संघयणा १३ । संठाणावि य पंच उ १८ वन्नाइचउक्कमपसत्थं २२ ॥ ८८ ॥ उवधाय २३ कुविहायगई २४ थावरदसगेण होंति चोत्तीसा ३४ । सङ्घाओं मीलियाओ बासीई पावपयडीओ ८२ ॥ ८९ ॥ ज्ञानावरणपञ्चकं अन्तरायपञ्चकं दर्शनावरणनवकं सम्यक्त्वमिश्रे उदद्यमेव केवलमाश्रित्याशुभे, न बन्धमपि तयोर्बन्धासंभवात्, अतस्त For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy