SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३६९ ॥ यतस्तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमयेऽकर्मतामनुभवति, अकषायाणां कषायरहितत्वेन बहुतरस्थितिबन्धासंभवात्, सकषायाणां तु सूत्रोपात्ता द्वादशमुहूर्ता जघन्या स्थितिः, अन्तर्मुहूर्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा नामगोत्रयोः प्रत्येकमष्टौ अष्टौ मुहूर्त्ता जघन्या स्थितिः अन्तर्मुहूर्त्तमबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा शेषाणां ज्ञानावरणदर्शनावरणान्तरायमोहनीयायुषां जघन्या स्थितिर्मुहूर्तान्तः - अन्तर्मुहूर्त, अत्राप्यन्तर्मुहूर्तमबाधा, नवरं तल्लघुतरमवसेयं, अबाधाकालहीनश्च कर्मदुलि - कनिषेकः, तदेवमुक्ता मूलप्रकृतीनामुत्कृष्टा जघन्या च स्थितिः, उत्तर प्रकृतीनां तु कर्मप्रकृत्या दिग्रन्थेभ्योऽवसेया ॥ ८१ ॥ साम्प्र| तमेतेषामेव कर्मणामुत्कृष्टस्थित्यबाधाकालपरिमाणमाह – 'जस्से' त्यादि, यस्य कर्मणो यावत्यः सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः प्रतिपादिता तस्य कर्मणस्तावन्मात्राणि वर्षशतानि भवत्युत्कृष्टोऽबाधाकालः, यथा मोहनीयस्य सप्ततिसागरोपमकोटी कोट्य उत्कृष्टा स्थितिः ततस्तस्य सप्ततिवर्षशतान्यवाधा, एवं सर्वत्रापि भावनीयं, आयुषि पुनरुत्कृष्टोऽबाधाकालो भवत्रिभागः - पूर्वकोटित्रिभागलक्षणः, पूर्वकोटित्रिभागमध्ये बध्यमानायुर्दलिकनिषेकं न विदधातीत्यर्थः, वेद्यमानस्य ह्यायुषो द्वयोनिभागयोरतिक्रान्तयोस्तृतीये भागेऽवशिष्टे परभवायुषो बन्धः ततः पूर्वकोटित्रिभागो लभ्यते, जघन्या त्वबाधा सर्वेषामपि कर्मणामन्तर्मुहूर्तप्रमाणेति ।। ८२ ।। २१८ ॥ इदानीं 'बायालीसा य पुन्नपयडीओ'त्ति एकोनविंशत्युत्तरद्विशततमं द्वारमाह सायं १ उच्चागोयं २ नरतिरिदेवाङ ५ नाम एयाओ । मणुयदुगं ७ देवदुगं ९ पंचिंदियजाइ १० पण १५ ॥ ८३ ॥ अंगोवंगतिगंपि य १८ संघयणं वज्जरिसहनारायं १९ । पढमं चिय संठाणं २० वन्नाइचक्क सुपसत्थं २४ ॥ ८४ ॥ अगुरुलहु २५ पराघायें २६ उस्सासं २७ आयवं च २८ Jain Education International For Private & Personal Use Only २१९ पुण्यप्रकृतयः गा. १२८३-८६ ॥ ३६९ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy