________________
वयोग्या पुनरबाधाकालाच, तत्र कर्मरूपतावस्थान स्थितिः
संतो॥८१॥ जस्स जइ कोडकोडीउ तस्स तेत्तियसयाई वरिसाणं। होइ अवाहाकालो आउम्मि पुणो भवतिभागो ॥ ८२॥ मोहे-मोहनीये षष्ठीसप्तम्योरर्थ प्रत्यभेदात् मोहनीयस्य कर्मण उत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, इह द्विधा स्थितिः, तद्यथा-कर्मरूपतावस्थानलक्षणा अनुभवयोग्या च, तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्योत्कृष्टं जघन्यं वा प्रमाणमभिधातुमि|ष्टमवगन्तव्यं, अनुभवयोग्या पुनरबाधाकालहीना, येषां च कर्मणां यावत्यः सागरोपमकोटीकोट्यः तेषां तावन्ति वर्षशतान्यबाधाकालः,
तेन मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटीकोट्य इति तस्य सप्ततिवर्षशतान्यबाधाकालः, तथाहि-तन्मोहनीयमुत्कृष्टस्थितिक कबद्धं सत् सप्ततिवर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्याबाधामुत्पादयति, अबाधाकालहीनश्च कर्मदलिकनिषेकः, किमुक्तं
भवति ?-सप्ततिवर्षशतप्रमाणेषु समयेषु मध्ये न वेद्यदलिकनिक्षेपं करोति, किंतु तत ऊर्दू मिति, तथा नामगोत्रयोरुत्कृष्टा थितिविंशति* सागरोपमकोटीकोट्यो, द्वे वर्षसहस्र अबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः, तथा इतरेषां चतुर्णा-ज्ञानावरणदर्शनावरणवेद
नीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, त्रीणि वर्षसहस्राण्यबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, आयुष | उत्कृष्टा स्थितित्रयस्त्रिंशदतराणि-सागरोपमाणि पूर्व कोटित्रिभागोऽबाधा अबाधाकालहीनश्च कर्मदलिकनिषेकः, सूत्रकृता त्वसौ पूर्वकोटित्रिभागोऽवाधारूपतयैवापयाति न पुनरुदयमायाति अतो यावती स्थितिरायुषो वेद्यते तावत्येवाबाधारहितोपात्तेति ॥ ८०॥ अथ उत्कृष्टस्थितिनिगमनपूर्व जघन्यां स्थितिमाह-'एसे'त्यादि, एषा-पूर्वोक्ता उत्कृष्टा स्थितिः, इतरा-जघन्या पुनर्वेदनीये-वेदनीयस्य द्वादश मुहूर्ताः, इह द्विधा वेदनीयस्य जघन्या स्थितिः प्राप्यते-सकषायानकषायांश्च प्रतीत्य, तत्राकषायाणां वेदनीयस्थितिर्द्विसमयस्थितिका,
कर
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org