________________
प्रव० सा
मासहितेन असहितेन वा योगसंज्ञकेन वीर्य विशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पुनः पञ्च स्थानानि, तद्यथा-सप्त | २१७ रोद्धारे
अष्टौ षट् पञ्च द्वे, इत्येषां बन्धादीनां स्थानसङ्ख्या ॥ ७६ ॥ साम्प्रतमेतेषां बन्धादिस्थानानामेव स्वरूपमाह-'बंधे'त्यादिगाथा- बन्धादितत्त्वज्ञा- द्वयं, आयुर्बन्धकाले ज्ञानावरणादिका अष्टौ प्रकृतयो बन्धे प्राप्यन्ते, शेषकालं त्वनायुष्काः-आयुर्बन्धविवर्जिताः सप्त, 'अमोहाउत्ति
स्वरूपम् नवि० मोहायुर्वर्जाः षट् प्रकृतीबंध्नतः षड्डिधो बन्धः, ज्ञानदर्शनावरणान्तरायनामगोत्रबन्धव्यवच्छेदे एकमेव सातं बध्नत एकविधो बन्धः।
गा. तथा सत्तायामुदये च सर्वप्रकृतिसमुदाये अष्टौ प्राप्यन्ते, मोहनीयस्य उदयसत्ताव्यवच्छेदे सप्त, घातिकर्मणां-ज्ञानदर्शनावरणान्तराया- 5१२७६-७९ ॥३६७॥
|णामुदयसत्ताव्यवच्छेदे चतस्रः । तथा सर्वप्रकृतिसमुदायेऽष्टौ प्रकृतीरुदीरयति, आयुष उदीरणायामपगतायामायुर्वर्जाः सप्त, वेदनीयायुपोरदीरणायामपगतायां षड्डिधं कर्मोदीरयति, वेदनीयमोहायुषामुदीरणाऽपगमे पञ्च प्रकृतीरुदीरयति, अकषायी-केवली नामगोत्रलक्षणे द्वे कर्मणी उदीरयति । अथैतान्येव बन्धादिस्थानानि विनेयव्युत्पत्तये गुणस्थानकयोजनया विभाव्यन्ते-मिथ्यादृष्ट्यादयो मिश्रवर्जिता अप्रमत्तान्ता अष्ट सप्त वा कर्माणि बध्नन्ति, आयुः कदाचिदेव बद्ध्यते इत्यायुर्बन्धकाले अष्ट आयुर्वन्धाभावे तु सप्तव, मिश्रापूर्वकरणानिवृत्तिबादरास्तु सप्तैव बध्नन्ति, तेषामायुर्बन्धाभावात् , तत्र मिश्रस्य तथास्वाभाव्यात् इतरयोः पुनरतिविशुद्धत्वात् आयुर्वन्धस्य च घो|लनापरिणामहेतुत्वात् , तथा सूक्ष्मसंपरायो मोहनीयायुर्वर्जानि षट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयहेतुत्वात् तस्य च | तदभावात् आयुर्बन्धाभावस्त्वतिविशुद्धतरत्वादवसेयः, तथा उपशान्तमोहक्षीणमोहसयोगिकेवलिन एकविधं सातवेदनीयं कर्म बनन्ति, न शेषाणि, तद्वन्धहेत्वभावात् , अयोगिकेवली तु योगस्यापि बन्धहेतोरभावाबन्धकः । तथा मिध्यादृष्टिगुणस्थानकादारभ्य यावत्सू
+ ॥३६७॥ दक्ष्मसंपरायगुणस्थानं तावदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते, सर्वत्रापि मोहनीयोदयसत्तयोः प्राप्यमाणत्वात् , उपशान्तमोहे ||
RC444
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org