SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ उदये सप्त प्राप्यन्ते, मोहनीयस्योपशान्तत्वेनोदयाभावात् , सत्तायां त्वष्टौ, मोहनीयस्य विद्यमानत्वात् , क्षीणमोहे सत्तायामुदये च सप्त, मोहनीयस्य क्षीणत्वेनोदयसत्तयोरभावात् , सयोग्ययोगिकेवलिनोस्तु चत्वार्यघातिकर्माणि उदये सत्तायां च प्राप्यन्ते, न शेषाणि, तेषां | दिक्षीणत्वात् , तथा मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतगुणस्थानं तावज्जीवो निरन्तरमष्टानामपि कर्मणामुदीरकः, केवलमनुभूयमानभवायु कावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वेनोदीरणाया अभावात् सप्तानामुदीरकः, सम्यग्मिथ्यादृष्टिगुणस्थानके तु वर्तमानः सर्वदैवाष्टानामुदीरकः, आयुष आवलिकावशेषत्वे मिश्रगुणस्थानकस्यासंभवात् , तथाहि-अन्तर्मुहूर्तावशेष एवायुषि मिश्रगुणस्थानकात्प्रतिपत्य सम्यक्त्वं मिथ्यात्वं वा जीवो गच्छतीति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयायुर्वर्जाणां शेषाणां षण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् , सूक्ष्मसंपरायस्तु षण्णां पञ्चानां वा उदीरकः, तत्र यावन्मोहनीयमावलिकावशेषं न भवति तावत्पूर्वोक्तानामेव षण्णामुदीरकः, आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पञ्चानामुदीरकः, उपशान्तमोहोऽपि वेदनीयायुर्मोहनीयवर्जानां पञ्चानामुदीरकः, तत्र वेदनीयायुषोः कारणं प्रागेवोक्तं, मोहनीयं तूदयाभावान्नोदीर्यते, 'वेद्यमानमेवोदीर्यत' इति वचनात् , क्षीणमोहोऽप्यनन्तरोक्तानां पञ्चानां कर्मणामुदीरकः, तानि च तावदुदीरयति यावद् ज्ञानदर्शनावरणान्तरायाणि आवलिकाप्रविष्टानि न भवन्ति, आवलिकामात्रप्रविष्टेषु तेषु तेषामप्युदीरणाया अभावात् द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयतीति, सयोगिकेवली पुनर्नामगोत्रे उदीरयति, न शेषाणि, घातिकर्मचतुष्टयस्य निर्मूलत एव क्षीणत्वात् , वेदनीयायुषोस्तु पूर्वोक्तकारणानोदीरणेति, अयोगिकेवली त्वनुदीरकः, योगसव्यपेक्षत्वात् उदीरणायास्तस्य च योगाभावादिति ॥ ७७ ।। ७८ ॥ अथ बन्धादिषु सर्वसङ्ख्यया यावत्य उत्तरप्रकृतयो भवन्ति तावतीदर्शयितुमाह-'बन्धे'इत्यादि, बन्धे-बन्धचिन्तायां विंशत्युत्तरं प्रकृतीनां शतं भवतीति, *SC4044LCDC15454 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy