________________
न्तानां जीवानामेकं शरीरमुपजायते ?, तथाहि-य एव प्रथममुत्पत्तिदेशमागतस्तेन तच्छरीरं निष्पादितं, अन्योऽन्यानुगमनेन च सर्वात्मना क्रोडीकृतं, ततः कथं तत्रान्येषां जीवानामवकाशः १, न खलु देवदत्तशरीरे देवदत्तेनान्योऽन्यानुवेधेन क्रोडीकृते देवदत्त इव | सकलशरीरेण सहान्योऽन्यानुगमपुरस्सरमन्येऽपि जीवाः प्रादुष्पन्ति, तथाऽदर्शनात् अपि च- सत्यप्यवकाशे येनैव तच्छरीरं निष्पाद्यान्योऽन्यानुगमेन क्रोडीकृतं स एव तत्र प्रधान इति, तस्यैव पर्याप्तापर्याप्तव्यवस्था प्राणापानादियोग्यपुद्गलोपादानं च भवेत्, न शेषाणामिति, तदेतद्सम्यक् सम्यग्जिनवचनपरिज्ञानाभावात्, ते ह्यनन्ता अपि जीवास्तथाविधकर्मोदयसामर्थ्यतः समकमेवोत्पत्तिदेशमधितिष्ठन्ति समकमेव च तच्छरीराश्रिताः पर्याप्तीर्निर्वर्तयितुमारभन्ते समकमेव च पर्याप्ता भवन्ति, समकालमेव च प्राणापानादियोग्यान् पुनलानाददते, यचैकस्य पुत्रलाभ्यवहरणं तदन्येषामनन्तानामपि साधारणं, यश्चानन्तानां तद्विवक्षितस्यापि जीवस्य ततो न कदाचिदनुपपत्तिरिति, उक्तं च प्रज्ञापनायाम् — “समयं वकंताणं समयं तेसिं सरीरनिप्फत्ती । समयं आणुग्गहणं समयं उस्सासनिस्सासा ॥ १ ॥ एगस्स उ जं गहणं बहूण साहारणाण तं चैव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥ २ ॥ साहारणमाहारो साहारणमाणुपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥ ३ ॥” इति [ समकं व्युत्क्रान्तानां समकं तेषां शरीरनिष्पत्तिः । समकमानापानग्रहणं समकमुच्छ्रासनिःश्वासौ ॥ १ ॥ एकस्य तु यद्ग्रहणं बहूनां साधारणानां तदेव । यद् बहूनां ग्रहणं समासतस्तदपि एकस्य ॥ २ ॥ साधारण आहारः साधारणमानापानग्रहणं च । साधारणजीवानां साधारणलक्षणमेतत् ॥ ३ ॥ ] तथा यदुदयात् शरीरावयवानां शिरोऽस्थिदन्तानां स्थिरता भवति तत् स्थिरनाम, तथा बदुयवशाज्जिह्वादीनां शरीरावयवानामस्थिरता भवति तदस्थिरनाम, तथा यदुदयान्नाभेरुपरितनाः शिरःप्रभृतयोऽवयवाः शुभा भवन्ति तच्छुभनाम, शिरः प्रभृतिनिर्हि स्पृष्टः परो हृष्यतीति तेषां शुभत्वं, तथा यस्योदया
भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org