________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३६५ ॥
प्रत्येकशरीरिणां, प्रत्येकशरीरिणश्च नारकामरमनुष्यद्वीन्द्रियादयः पृथिव्यादयः कपित्थादितरवश्च ननु यदि प्रत्येकनाम्न उदयः कपित्थादिपादपादीनामिष्यते तर्हि तेषां जीवं जीवं प्रति मिन्नं शरीरं भवेत्, तच्च न भवति, यतः कपित्थाश्वत्थपीलुशेल्वादीनां मूलस्कन्धत्वक्शाखादयः प्रत्येकमसङ्ख्येयजीवा उच्यन्ते, यत उक्तं प्रज्ञापनायां एकास्थिकबहुबीजवृक्षप्ररूपणावसरे – “एएसि मूला असंखेज्जजीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया” इत्यादि, मूलादयश्च फलपर्यन्ताः सर्वेऽप्येकशरीराकारा उपलभ्यन्ते, देवदत्तशरीरवत्, यथा हि देवदत्तशरीरमखण्डमेकरूपमुपलभ्यते तद्वन्मूलादयोऽपि तत एकशरीरात्मकाः कपित्थादयस्ते चासपेयजीवाः ततः कथं ते प्रत्येकशरीरिणः ?, उच्यते, प्रत्येकशरीरिण एव तेषां मूलादिष्वसेयानामपि जीवानां भिन्नभिन्नशरीरसंभवात्, केवलं श्लेषद्रव्यविमिश्रितसकलसर्षपवर्तिरिव प्रबलरागद्वेषोपचिततथारूपप्रत्येकनामकर्मपुद्गलोयतस्ते तथा परस्परविमिश्रशरीरा जायन्ते, तथा चोक्तं प्रज्ञापनायामेव - "जह सगलसरिसवाणं सिलेस मिस्साण वट्टिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ १ ॥ जह वा तिलपप्पाडिया बहुएहिं तिलेहिं मीसिया संती । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥ २ ॥” गाथाद्वयस्याप्ययमक्षरार्थः - यथा सकलसर्षपाणां लेषद्रव्येण मिश्रीकृतानां वर्तिता - वलिता वर्तिः यथा च बहुभिस्तिलैर्विमिश्रिता सती तिलपर्पटिका भवति तथा प्रत्येकशरीरिणां शरीरसङ्घाताः, इयमत्र भावना-यथा तस्यां वर्ती सकलसर्षपाः परस्परं भिन्ना नान्योऽन्यानुवेधभाजस्तथा अदर्शनातू अत एव सकलग्रहणं येन स्पष्टमेव अन्योऽन्यानुवेधाभावः प्रतीयते, एवं वृक्षादावपि मूलादिषु प्रत्येकमसङ्ख्येया अपि जीवाः परस्परं विभिन्नशरीराः, यथा च ते सर्षपाः श्लेषद्रव्यसंपर्कमाहाम्यात् परस्परं विमिश्रा जातास्तथा प्रत्येकशरीरिणोऽपि ते तथारूपप्रत्येकनामकर्मपुद्गलोदयात्परस्परं संहता जाता इति । तथा यदुदयवशादनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम, ननु कथमन
Jain Education International
For Private & Personal Use Only
२१६ उत्त
रप्रकृतयः
गा.
१२५१-७५
॥ ३३५ ॥
www.jainelibrary.org