SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ % धिया भावनीया । तथा यदुदयाज्जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तद्विपाकश्च भानुमण्ड| लादिगतेषु पृथिवीकायेष्वेव, न वह्रौ, प्रवचने प्रतिषेधात् , तत्रोष्णत्वमुष्णस्पर्शनामोदयात् उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिति। टा TA तथा यदुदयाज्जन्तुशरीराणि स्वरूपेणानुष्णान्यनुष्णप्रकाशात्मकमुद्योतमातन्वन्ति यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताराविमानरत्नौ षधयस्तदुद्योतनाम, तथा विहायसा-नभसा गतिः-प्रवृत्तिर्विहायोगतिः, ननु सर्वगतत्वाद्विहायसस्ततोऽन्यत्र गतिर्न संभवतीति किमर्थ ||२|| विहायसा विशेषणं ?, व्यवच्छेद्याभावात् , सत्यमेतत् , किंतु यदि गतिरित्येवोच्यते ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यात् , अतस्तद्व्यवच्छित्तये विहायसा विशेषणं, विहायसा गतिर्न तु नारकत्वादिपर्यायपरिणतिरूपति विहायोगतिः, सा च द्वेधा-1 प्रशस्ता अप्रशस्ता च, तत्र प्रशस्ता हंसहस्तिवृषभादीनां, अप्रशस्ता तु खरोष्ट्रमहिषादीनामिति । तथा त्रस्यन्ति-उष्णाद्यमितप्ताः सन्तो| विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरमिति त्रसा-द्वीन्द्रियादयः तत्पर्यायविपाकवेद्यं कर्मापि प्रसनाम, तथा तिष्ठन्तीत्येवंशीला उष्णायभितापेऽपि तत्स्थानपरिहारासमर्थाः स्थावरा:-पृथिव्यादय एकेन्द्रियादयः तत्पर्यायविपाकवेद्यं कर्मापि स्थावरनाम, तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव, न तूष्णाद्यमितापेन द्वीन्द्रियादीनामिव विशिष्टमिति । तथा यदुदयाजीवा बादरा भवन्ति तद्बादरनाम, बादरत्वं चात्र परिणामविशेषः, यदशात्पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्माह्यत्वाभावेऽपि बहूनां समु दाये चक्षुषा प्रहणं भवति, तद्विपरीतं सूक्ष्मनाम, यदुदयाहूनामपि समुदितानां जन्तुशरीराणां चक्षु यत्वं न भवति, तथा यदुदयाशत्खयोग्यपर्याप्तिनिवर्तनसमर्थो भवति तत्पर्याप्तकनाम, यदुदयाच वयोग्यपर्याप्तिपरिमाप्तिसमर्थो न भवति तदपर्याप्तकनाम, पर्याप्तिख रूपं तु द्वाविंशत्यधिकद्विशततमद्वारे विशेषेण वक्ष्यते, तथा यदुदयात् जीवं जीवं प्रति मिन्नं शरीरमुपजायते तत्प्रत्येकनाम, तस्योदयः % % in Education International For Private Personal Use Only www.ainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy