________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ३६४ ॥
तसादाविव मधुरः शर्करादाविव । तथा स्पृश्यत इति स्पर्शः - कर्कशा दिरष्टधा, तत्र कर्कशः पाषाणादाविव मृदुसरुतादाविव लघुरर्क-| तूलादाविव गुरुर्ब्रादाविव शीतो मृणालादाविव उष्णो वह्नथादाविव स्निग्धो घृतादाविव रूक्षो भस्मादाविव, एवमेते वर्णादयो यदुद| यवशाज्जन्तुशरीरेषु भवन्ति तान्यपि कर्माण्येतन्नामकानि वाच्यानीति । तथा सर्वप्राणिनां शरीराणि यदुदयवशादात्मीयात्मीयापेक्षया नैकान्तेन लघूनि नापि गुरूणि किंतु अगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनाम, एकान्तगुरुत्वे हि वोढुमशक्यानि स्युः एकान्तलघुत्वे तु वायुना विक्षिप्यमाणानि धारयितुं न पारयेरन्निति । तथा स्वशरीरावयवैरेव प्रतिजिह्नागलवृन्दलम्ब कचौरदन्तादि मिः शरीरा|न्तर्वर्धमानैर्यदुदयादुपहन्यते - पीड्यते जन्तुस्तदुपघातनाम, तथा यदुदयादोजखी दर्शनमात्रेण वाक्सौष्ठवेन वा नृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिघातं च विधत्ते तत्पराघातनाम, तथा कूर्परलाङ्गलगोमूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटी इहाऽऽनुपूर्वी, तत्र नरकगत्या सहचरिताऽऽनुपूर्वी नरकगत्यानुपूर्वी, तत्समयं च वेद्यमानत्वात्सहचारित्वं, एवं तिर्यग्मनुष्यदेवानुपूर्योऽपि वाच्याः । तथा यदुदयादुच्छ्रासनिःश्वासलब्धिरात्मनो भवति तदुच्छ्रासनाम, सर्वलब्धीनां क्षायोपशमिकत्वा दौदयिकी लब्धिर्न संभवतीति चेत्, नैतदस्ति, वैक्रियाहारकादिलब्धीनां औदयिकीनामपि संभवाद्, वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्ती भवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकश्यपदेशोऽपि न विरुध्यते । ननु यदि उच्छासनामकर्मोदयादुच्छा सनिःश्वासौ तदा उच्छासपर्याप्तिनाम्नः कोपयोगः ?, उच्यते, उच्छ्रासनाम्न उच्छास| निःश्वासग्रहणमोक्षविषया लब्धि रुपजायते, सा च लब्धिर्नोच्छ्रासपर्याप्तिमन्तरेण स्वफलं साधयति, न खस्विषुक्षेपणशक्तिमानपि धनुर्प्रहणशक्तिमन्तरेणेषु क्षेप्तुमलं, तत उच्छ्रासलब्धिनिर्वर्तनार्थमुच्छ्रासपर्याप्तिनाम्न उपयोगः, एवमन्यत्रापि भिन्नविषयता यथायोगं सूक्ष्म
Jain Education International
For Private & Personal Use Only
२१६ उत्तरप्रकृतयः गा.
१२५१-७५
॥ ३६४ ॥
www.jainelibrary.org