________________
यथा न्यग्रोध उपरि संपूर्णावयवोऽधस्तु हीनस्तदमपि नाभेरुपरि विस्तारबहुलं संपूर्णलक्षणादिभाग अधस्तु न तथेति, तथा आदि:इहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, यद्यपि च सर्वमपि शरीरमादिना सह वर्तते तथापि सादित्वविशेषणान्यथानुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लक्ष्यते, तत उक्तंयथोक्तप्रमाणलक्षणेनेति, इदमुक्तं भवति-यत्संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत्सादि इति, अपरे तु साचीति पठन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधो भागः परिपूर्णो भवति उपरितनभागस्तु नेति भावः, तथा वामनं मडहकोष्ट पाणिपादशिरोपीवं यथोक्तप्रमाणलक्षणोपेतं शेषं तूरउदरादिरूपं कोष्ठं शरीरमध्यं मडहं-लक्षणरहितं तद् यत्र तद्वामनमित्यर्थः, अधस्तनकायमडहं कुब्जं पाणिपादशिरोनीवालक्षणोऽधस्तनकायो मडहो-लक्षणविसंवादी यत्र शेषं तु मध्यकोष्ठं यथोक्तलक्षणयुक्तं तत्कुब्ज, वाममविपरीतमित्यर्थः, अन्ये तु दर्शितलक्षणव्यत्ययेन प्रथमं कुब्जं ततो वामनं पठन्तीति, हुण्डं तु सर्वावयवेषु प्रायो लक्षणविनिर्मुक्तं, यस्यैकोऽप्यवयवः प्रायो न लक्षणयुक्तो भवति तत्सर्वत्रासंस्थितं हुण्डमित्यर्थः । तथा वर्ण्यते-अलक्रियते गुणवक्रियते शरीराद्यनेनेति वर्ण:-कृष्णादिः पञ्चधा, तत्र कृष्णः कज्जलादाविव नीलः प्रियङ्गुपर्णादाविव लोहितो हिङ्गुलकादाविव हारिद्रो हरिद्रादाविव शुक्लः | खटिकादाविव । तथा गन्ध्यते आघायत इति गन्धः, स द्विधा-सुरभिः श्रीखण्डादाविव दुरमिर्लसुनादाविव । तथा रस्यते-आस्वाद्यत इति रसः तिक्तादिः पञ्चधा, तत्र तिक्तः कोशातक्यादाविव कटुः शुण्ठ्यादाविव, शास्त्रे हि यत्परिणाममङ्गीकृत्यातिदारुणं तत्कटुकमुच्यते, यच्च परिणामेऽतिशीतलं तन्निम्बादिकं लोके कटुकमपि शास्त्रे तिक्तमिति व्यपदिश्यते, कषायोऽपक्ककपित्थादाविव अम्ल आम्लवे
C44
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org