SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २१६ उक्त प्रव० सारोद्धारे तत्त्वज्ञानवि० रप्रकृतयः प. १२५१-७५ ॥३६२॥ मार्जिकाऽमिलापवदुभयोरपि स्त्रीपुरुषयोरमिलाषः समुदेति स नगरमहादाहसमानो नपुंसकवेदः, तथा यदुदये सनिमित्तमनिमित्तं वा हसति तत् हास्यमोहनीयं, यदुदयाद्वाह्याभ्यन्तरेषु वस्तुषु प्रीतिरुपजायते तद्रतिमोहनीयं, एतेष्वेव यदुदयादप्रीतिरुपजायते तदरतिमोहनीयं, यदुदयात्सनिमित्तमनिमित्तं वा तथारूपस्वसंकल्पतो बिभेति तद्भयमोहनीयं, यदुदयात्प्रियविप्रयोगादौ स्वोरस्ताडमाक्रन्दति परिदेवते भूपीठे च लुठति दीर्घ निःश्वसिति तच्छोकमोहनीयं, यदुदयवशात्पुनः पुरीषादिबीभत्सपदार्थेषु जुगुप्सावान् भवति तजुगुप्सामोहनीयं, तथा यदुदयाज्जिनप्रणीततत्त्वार्थानामश्रद्धानं विपरीतश्रद्धानं वा तन्मिथ्यात्वं, यदुदयात्पुनर्जिनप्रणीतं तत्त्वं न सम्यक् श्रद्धत्ते नापि निन्दति तन्मिश्र, सम्यग्मिथ्यात्वमित्यर्थः, यदुदयवशात्पुनर्जिनप्रणीतं तत्त्वं सम्यक् श्रद्धत्ते तत्सम्यक्त्वमिति । तथा नारकस्य सतो वेद्यमानमायुष्कं नारकायुष्कं तिरश्चां तिर्यगायुष्कं मनुष्याणां नरायुष्कं देवानां सुरायुष्कमिति । तथा यदुदयवशादुत्तमजातिकुलतपोरूपैश्वर्यश्रुतसत्काराभ्युत्थानासनप्रदाना जलिप्रग्रहादिसंभवस्तदुच्चैर्गोत्रं, यदुदयवशात्पुनर्ज्ञानादिसंपन्नोऽपि निन्दा लभते हीनजात्यादिसंभवं च तन्नीचैर्गोत्रं । अन्तरायभेदाश्च नामोत्कीर्तनावसरे सूत्रकृतैव व्याख्याता इति । तथा गम्यते-तथाविधकर्मसचिवै वैः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः तद्विपाकवेद्या कर्मप्रकृतिरप्युपचाराद्गतिः सैव नाम गतिनाम, एवमन्यत्रापि द्रष्टव्यं, ततश्च नरकविषये गतिनाम नरकगतिनाम, नारकशब्दव्यपदेश्यपर्यायनिबन्धनं नरकगतिनामेति तात्पर्य, एवं तिर्यग्मनुष्यदेवगतिनामापि वाच्यमिति । तथा एकेन्द्रियादीनां एकेन्द्रियत्वादिरूपसमानपरिणामलक्षणमेकेन्द्रियादिव्यपदेशभाग यत्सामान्यं सा जातिः, इदमत्र तात्पर्य-द्रव्यरूप मिन्द्रियं अङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्यात् सिद्धं, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात् , 'क्षायोपशमिकानीसन्द्रियाणी ति वचनात् , यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यसाध्यत्वाज्जातिनामनिबन्ध ॐॐॐॐ ॥३६२. Jan Education Internal For Private Personel Use Only www.ainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy