________________
+
5+
SHRA
नमिति, उक्तं च-'अव्यभिचारिणा सादृश्यनैकीकृतोऽर्थोऽसौ जाति"रिति, तन्निमित्तं जातिनाम, तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमात्तदेकविज्ञानभाज एकेन्द्रियाः, एवं यस्य यावन्तीन्द्रियाणि तस्य तान्याश्रित्यानेनामिलापेन तावन्नेयं यावत्पञ्चानां स्पर्शनरसनघ्राणचक्षुःश्रोत्रज्ञानानामावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः, तेषामेकेन्द्रियाणां जातिनाम एकेन्द्रियजातिनाम एवं यावत् पञ्चेन्द्रियजातिनाम । शीर्यत इति शरीरं-प्रतिक्षणं प्रागवस्थातश्चयापचयाभ्यां विनश्यतीत्यर्थः, तत्र यस्य कर्मण उदयादौदारिकवर्गणापु-||2 द्गलान् गृहीत्वा औदारिकशरीरत्वेन परिणमयति तदौदारिकशरीरनाम, एवं वैक्रियाहारकतैजसकार्मणशरीरनामस्खपि वाच्यं, यावद् यस्य कर्मण उदयात्कार्मणवर्गणापुद्गलान् गृहीत्वा कार्मणशरीरत्वेन परिणमयति तत्कार्मणशरीरनाम, इदं च सत्यपि समानवर्गणापुद्गलमयत्वे खकार्यभूतात्कार्मणशरीरादन्यदेव, इयं हि कार्मणशरीरस्य कारणभूता नामकर्मण उत्तरप्रकृतिः, कार्मणशरीरं तु पुनरेतदुदयसभ वित्वादेतत्कार्य निःशेषकर्मणां प्ररोहभूमिराधारो वा संसार्यात्मनां च गत्यन्तरसंक्रमणे साधकतमं कारणमित्यन्यदेव खकार्यात्कार्मणशरीरात्कारणभूतं प्रस्तुतं कार्मणशरीरनामकर्मेति । तथा अङ्गानि-शिरउरउदरपृष्ठबाहूरुसंज्ञितान्यष्टौ तद्वयवभूतानि त्वङ्गुल्यादीन्युपाङ्गानि शेषाणि तु तत्प्रत्यवयवभूतान्यङ्गुलिपर्वरेखादीन्यङ्गोपाङ्गानि, अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि चेति द्वन्द्वे एकपदशेषे अङ्गोपाङ्गानि , तानि | च यस्य कर्मण उदयाद् येषु त्रिषु शरीरेषु भवन्ति तत् त्रिविधं अङ्गोपाङ्गनाम, तत्र यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गो-* पाङ्गविभागेन परिणतिर्भवति तदौदारिकशरीराङ्गोपाङ्गनाम, एवं वैक्रियाहारकाङ्गोपाङ्गनानोरपि वाच्यं, तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसंभव इति । तथा बध्यतेऽनेनेति बन्धनं-औदारिकादिपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परसंश्लेषकारि, तच्च शरीरपञ्चकभेदात् पञ्चधा, तत्र पूर्वगृहीतैरौदारिकपुद्गलैः सह गृह्यमाणानौदारिकपुद्गलानुदितेन येन कर्मणा बन्नात्यात्मा
Jan Education Intemanong
For Private
Personel Use Only
www.jainelorary.org