________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥ ३६१H
Jain Education International
देशघातीनि केवलज्ञानावरणोद्धरितज्ञानदेशघातित्वात्, केवलज्ञानावरणं तु सर्वघाति, एतानि मतिज्ञानावरणादीनि पश्चोत्तरप्रकृतयः, तन्निष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृति:, यथाऽङ्गुलीपभ्वकनिष्पन्नो मुष्टिः घृतगुडकणिकादिभिर्निष्पन्नो वा मोदक इत्यादि, एवमप्रेतनेष्वपि भावना कार्या । तथा नयनाभ्यां दर्शनं - सामान्यावबोधरूपं नयनदर्शनं तस्यावरणं नयनदर्शनावरणं चक्षुर्दर्शनावरणमित्यर्थः, इतरै:- चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमितरदर्शनं तस्यावरण मितरदर्शनावरणं, अचक्षुर्दर्शनावरणमित्यर्थः, अवधिरेव दर्शनमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, केवलमेव दर्शनं केवलदर्शनं तस्यावरणं केवलदर्शनावरणं, तथा 'द्रा कुत्सायां गतौ' नियतं द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा-नखच्छोटिकादिमात्रेणैव सुखावबोधा स्वापावस्थेत्यर्थः, कारणे कार्योपचारात् तद्विपाकवेद्या कर्मप्रकृतिरति निद्रेत्युच्यते, तथोपविष्ट ऊर्द्धस्थितो वा प्रचलति - विघूर्णयत्यस्यां स्वापावस्थायामिति प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचला, तथा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रेति मध्यपदलोपी समासः, दुःखप्रबोधा स्वापावस्येत्यर्थः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटतरीभूतत्वाद्बहुमिर्घोलनाप्रकारैः प्रबोधो भवति, अतः सुखप्रबोधनिद्रातोऽस्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रा, तथा प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादिकमपि कुर्वतः स्वप्नुर्भवतीति स्थानस्थितस्वप्तृभवां प्रचलामपेक्ष्यास्या अतिशायिनीत्वं, तथा स्त्याना - बहुत्वेन संघातमापन्ना गृद्धिः - अभिकाङ्क्षा जाप्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि जाग्रदवस्थाऽध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा-पिण्डीभूता ऋद्धिः - आत्मशक्तिरूपाऽस्यामिति स्त्यानर्द्धिरित्यप्युच्यते, तद्भावे हि उत्कर्षतः प्रथमसंहननस्य केशवार्धवलसदृशी शक्तिरुपजायते, तथा च प्रवचने श्रूयते - कचित्प्रदेशे कोऽपि क्षुल्लको विपाकप्राप्तस्त्यानर्द्धिनिद्रासहितो द्विरदेन दिवा खलीकृतः, ततस्तस्मिन् द्विरदे बद्धाभिनिवेशो निशि स्त्यानद्बुदये वर्तमानः समुत्थाय तद्द
For Private & Personal Use Only
२१६ उत्तरप्रकृतयः गा.
१२५१-७५
॥ ३६१.
www.jainelibrary.org