SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ निश्रितं मतिज्ञानमष्टाविंशतिविधं, अश्रुतनिश्रितेन चौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वात्रिंशद्विधं भवति, जातिस्मरणमपि समतिक्रान्तसयातभवावगमस्वरूपं मतिज्ञानभेद एव, तथा चाचाराङ्गटीका - " जातिस्मरणं त्वामि निबोधकविशेष" इति एतावद्भेदभिन्नस्यास्य एतावद्भेदमेव यदावरणस्वभावं कर्म तन्मतिज्ञानावरणमेकग्रहणेन गृह्यते । तथा श्रवणं श्रुतं वाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थपर्यालोचनानुसारीन्द्रियमनोनिमित्तो ज्ञानविशेष इत्यर्थः श्रुतं च तद् ज्ञानं च श्रुतज्ञानं, तद्भेदाश्च नन्द्यादिभ्योऽवसेयाः, तस्य सभेदस्याप्यावरणस्वभावं कर्म श्रुतज्ञानावरणं । तथा अवशब्दोऽधः शब्दार्थः, अव - अधोऽधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधिः | यद्वाऽवधि:-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः अवधिश्चासौ ज्ञानं च अवधिज्ञानं, तच्चानन्तद्रव्यभावविषयत्वात्तत्तारतम्यविवक्षयाऽनन्तभेदं असङ्ख्येयक्षेत्रकालविषयत्वात्तु तत्तारतम्यविवक्षयाऽसङ्ख्येयभेदं प्रकारान्तरविवक्षया त्वनुगामिकादिभेदत आवश्यका दिभ्योऽनुसरणीयं तस्यैतावद्भेदभिन्नस्यावरणस्वरूपं कर्म अवधिज्ञानावरणं । तथा संज्ञिभिर्जीवैः काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमय्यालम्व्यमानानि द्रव्याणि मनांसीत्युच्यन्ते तेषां पर्यायाः - चिन्तानुगुणाः परिणामास्तेषु ज्ञानं मनः पर्यायज्ञानं, इदं चार्धतृतीयसमुद्रान्तर्वर्विसंज्ञिमनोगतद्रव्यालम्बनं तच्च द्वेधा - ऋजुमति विपुलमति च एतत्स्वरूपं च लब्धद्वारे वक्ष्यते, तस्यैवं भेद मिन्नस्यावरणस्वभावं कर्म मनःपर्यायज्ञानावरणं तथा केवलं एकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा केवलं तदावरणमलकलङ्कविगमात् सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः संपूर्णोत्पत्तेः असाधारणं वा केवलमनन्यसदृशत्वात् अनंतं वा केवलं ज्ञेयानन्तत्वात् केवलं च तद् ज्ञानं च केवलज्ञानं तस्यावरणं केवलज्ञानावरणं । अत्र चाद्यानि चत्वार्यावरणानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy