SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ गा प्रव० सा- लानिमित्तोऽवगमविशेषः मतिश्चासौ ज्ञानं च मतिज्ञानं, तच्च द्विविध-श्रुतनिश्रितमश्रुतनिश्रितं च, तत्र प्रायः श्रुताभ्यासमन्तरेणापि यत्सह- २१६ उत्तरोद्धारे जविशिष्टक्षयोपशमवशादुत्पद्यते तदश्रुतनिश्रितं-औत्पत्तिक्यादिबुद्धिचतुष्टयं, यत्तु पूर्व श्रुतपरिकर्मितमतेर्व्यवहारकाले तु अश्रुतानुसारि रप्रकृतयः तत्त्वज्ञा-जातया समुत्पद्यते तत् श्रुतनिश्रितं, तच्चतुर्धा, तद्यथा-अवग्रहः ईहा अवायः धारणा चेति, पुनरवग्रहो द्विधा-व्यञ्जनावग्रहोऽर्थावग्रहश्च, नवि० तत्र व्यज्यते-प्रकटीक्रियते शब्दादिरर्थोऽनेनेति व्यजन-उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत्रघ्राणरसनस्पर्शनलक्षणस्य शब्दगन्ध- १२५१-७५ रसस्पर्शपरिणतद्रव्याणां च यः परस्परं संबन्धः प्रथममुपश्लेषमात्रं, अपरं च-इन्द्रियेणाप्यर्थस्य व्यख्यमानत्वादिन्द्रियमपि व्यजनमु च्यते, ततश्च व्यञ्जनेन-इन्द्रियलक्षणेन व्यञ्जनस्य-विषयसंबन्धलक्षणस्यावग्रहणं-परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपात् व्यजनावलाग्रहः, किमपीदमिति अव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरं ज्ञानमात्रमित्यर्थः, अयं च नयनमनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्धा, नयनमन सोरप्राप्यकारित्वेन विषयसंबन्धाभावाद्, अस्य चेन्द्रियविषययोः संबन्धग्राहकत्वादिति भावः, अर्थ्यत इत्यर्थः तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः, स च मनःसहितेन्द्रियपञ्चकजन्यत्वात् षोढा । अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुरेव न तु पुरुष इत्यादि वस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनं ईहेतिकृत्वा, 'अरण्यमेतत् सविताऽस्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना ॥१॥' इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखताऽऽलिङ्गितो ज्ञान विशेष ईहा इति हृदयं, साऽपि भनःसहितेन्द्रियपञ्चकजन्यत्वात् षोढैव । ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽवायः, अयमपि पूर्ववत् षोढा । तथा निश्चितस्यैवाविच्युतिस्मृ-3॥३६०॥ तिवासनारूपं धरणं धारणा, साऽपि पूर्ववत् षोदैव । तदेवमर्थावग्रहादीनां चतुर्णा प्रत्येकं षड्विधत्वाव्यजनावग्रहभेदचतुष्टयेन सह श्रुत FOC054-%% %9 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy