SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ स औदारिकौदारिकबन्धनं, तेषामेवौदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च तेजसपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध औदारिकतैजसबन्धनं, तथा तेषामेवौदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगुह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध औदारिक| कार्मणबन्धनं, तथा 'इयरदुसहियाणं तिन्नित्ति इतराभ्यां-तैजसकार्मणाभ्यां द्वाभ्यां समुदिताभ्यां सहितानां वैक्रियाहारकौदारिकाणां त्रीणि बन्धनानि भवन्ति, तद्यथा-वैक्रियतैजसकामणबन्धनं आहारकतैजसकार्मणबन्धनं औदारिकतैजसकार्मणबन्धनं च, तत्र वैक्रियपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानां च पूर्वगृहीतानां गृह्यमाणानां वा यः परस्परं संबन्धस्तद्वैक्रियतैजसकामणबन्धनं, एवमाहारकतैजसकार्मणबन्धनौदारिकतैजसकार्मणबन्धनयोरपि भावनाऽनुसतव्या, अनेन च बन्धनत्रिकेण सह पूर्वोक्तानि नव बन्धनानि द्वादश भवन्ति, तथा 'तेसिं च'त्ति तयोश्च-तैजसकार्मणयोः स्वस्थाने परस्परं बन्धनचिंतायां त्रीणि बन्धनानि भवन्ति, तद्यथा-तैजसतैजसबन्धनं तैजसकार्मणबन्धनं कार्मणकार्मणबन्धनं चेति, तत्र तैजसपुद्गलानां पूर्वगृहीतानां खैरेव तैजसपुद्गलैर्गृह्यमाणैः सह यः परस्पर संबन्धस्तत्तैजसतैजसबन्धनं, तेषामेव तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धस्तैजसकार्मणबन्धनं, कार्मणपुद्गलानां पूर्वगृहीतानां स्वैरेव कार्मणपुद्गलैगृह्यमाणैः सह संबन्धः कार्मणकार्मणबन्धनं, एतैश्च त्रिभिर्बन्धनैः सहितानि पूर्वोक्तानि द्वादश बन्धनानि पञ्चदश भवन्ति, एतन्निमित्तभूतानि च यानि बन्धननामकर्माणि तान्यपि पञ्चदश, एतैश्च सर्वैरपि बन्धनभेदैर्वन्धनपञ्चकरहितपूर्वोक्तत्रिनवतिमध्ये प्रक्षिप्तैर्नामकर्मण उत्तरप्रकृतीनां ध्युत्तरं शतं भवति । इत्येवं सर्वसङ्ख्यया अष्टानामपि | कर्मणामुत्तरप्रकृतीनामष्टपञ्चाशदधिकं शतं भवतीति । तदेवमुक्ताः सर्वा अपि नामत उत्तरप्रकृतयः, साम्प्रतमेतासामेवार्थः कथ्यते, तत्र मन ज्ञाने' मननं मतिः यद्वा मन्यते-इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः-योग्यदेशावस्थितवस्तुविषय इन्द्रियमनो KASCAKRA . Jan Education Intemanona For Private Personal use only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy