SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३५९ ॥ औदारिकवैक्रियाहार कतैजसकार्मणसंघातभेदात् पञ्चधा, एवमेता दश, तथा वर्णनाम कृष्णनीललोहितहारिद्रसितभेदात् पञ्चधा, गन्धनाम सुरभिदुरभिगन्धभेदाद् द्विधा, रसनाम तिक्तकटुकषायाम्लमधुरभेदात् पञ्चधा, स्पर्शनाम कर्कशमृदुलघुगुरुशीतोष्णस्निग्धरूक्षभेदादष्टधा, एवमेता विंशतिः प्रकृतयः, एतासां मध्याद्वर्णगन्धरसस्पर्शानां सामान्यतश्चतुर्णा सप्तषष्टिपक्षेऽपि गृहीतत्वात्तदपगमे शेषाः पोडश बन्धनसंघातदशकेन सह पडिशतिः प्रकृतयो भवन्ति, एताश्च अनन्तरोक्तसप्तषष्टिमध्ये प्रक्षिप्यन्ते, ततो नामप्रकृतीनां त्रिनवतिर्भवतीति । तथा प्रकारान्तरेण बन्धनस्य पञ्चदश भेदाः, के ते इत्याह- 'वेडवे' त्यादि, वैक्रियाहारकौदारिकाणां प्रत्येकं स्वकतैजसकार्मणयुक्तानां स्वकं आत्मीयं किमात्मीयमिति चेदुच्यते वैक्रियस्य वैक्रियं आहारकस्याहारकं औदारिकस्यौदारिकं तेन स्वकेन तैजसेन कार्मणेन च प्रत्येकं सहितानां बन्धनानि चिन्त्यमानानि नवनवसङ्ख्यानि भवन्ति, तद्यथा - वैक्रियवैक्रियबन्धनं वैक्रियतैजसवन्धनं वैक्रियकार्मणबन्धनं आहारकाहारकबन्धनं आहार कतैजसबन्धनं आहारककार्मणबन्धनं औदारिकौदारिकबन्धनं औदारिकतैजसबन्धनं औदारिककार्मणबन्धनमिति, तत्र पूर्वगृहीतवैक्रियपुद्गलानां स्वैरेव वैक्रियपुद्गलैर्गृह्यमाणैः सह संबन्धो वैक्रियवैक्रियबन्धनं तेषामेव वैक्रियपुङ्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धो वैक्रियतैजसबन्धनं, तथा तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धो वैक्रियकार्मणबन्धनं, तथा पूर्वगृहीतानामाहारकपुद्गलानां स्वैरेवाहारकपुद्गलैर्गृह्यमाणैः सह यः संबन्धः स आहारकाहारकबन्धनं तथा तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैर्गृह्यमाणैः पूर्वगृहीतैश्च सह संवन्ध आहारकतैजसबन्धनं, तथा तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैर्गृा| माणैः पूर्वगृहीतैश्च सह संबन्ध आहारककार्मणबन्धनं, तथा पूर्वगृहीतानामौदारिकपुद्गलानां स्वैरेवैौदारिकपुद्गलैर्गृह्यमाणैः सह यः संबन्धः Jain Education International For Private & Personal Use Only २१६ उत्तरप्रकृतयः गा. १२५१-७५ ॥ ३५९ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy