SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ भेदानां यदा नारकगत्यादयः प्रतिभेदा विवक्षिता भवन्ति तदा सप्तषष्टिः।। ६२ ।। ६३ ।। ६४ ॥६५॥ ६६ ॥ तामेव सप्तषष्टिमाह'गई'त्यादिगाथापञ्चकं, गतिनाम चतुर्धा-नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदात् , जातिनाम पञ्चधा एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिभेदात् , शरीरनाम पञ्चधा औदारिकवैक्रियाहारकतैजसकार्मणशरीरभेदात् , अङ्गोपाङ्गनाम त्रिधा औदारिकवैक्रियाहारकाङ्गोपाङ्गभेदात् , संहनननाम पोढा-वनऋषभनाराचऋषभनाराचनाराचअर्धनाराचकीलिकासेकासिंहननभेदात्, संस्थाननाम पोढा समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुंडसंस्थानभेदात् , वर्णादिचतुष्क-वर्णगंधरसस्पर्शलक्षणं, तथा अगुरुलघूपघातपराघातं च, आनुपूर्वीनाम चतुर्धा नारकतिर्यग्मनुष्यदेवानुपूर्वीभेदात् , तथा उच्छासं आतपं उद्योतं, विहायोगतिर्द्विधा-शुभाशुभविहायोगतिभेदात्, त्रसादिविंशतिः-त्रसस्थावरादिका यशःकीर्तिअयशःकीर्तिपर्यन्ता, निर्माणं च, एताः प्रकृतयस्तीर्थकरनाम्ना सहिताः सप्तषष्टिर्भवन्ति, एता एव च बन्धमुदयं चाश्रित्य नामकर्मण उत्तरप्रकृतयः परिगृह्यन्ते, शेषाणां च कर्मणां सम्यक्त्वमित्रैविना त्रिपञ्चाशत् , बन्धचिंतायां हि दर्शनमोहनीयोत्तरप्रकृती सम्यक्त्वमिश्रे न गृह्येते, तयोर्बन्धासंभवात् , मिथ्यात्वपुद्गला एव हि तथाविधविशोधिवशात् सम्यक्त्वरूपतया | मिश्ररूपतया च परिणमन्तीति । एवं च सप्तषष्टेर्नामकर्मभेदानां त्रिपञ्चाशतश्च शेषकर्मभेदानां मीलने बन्धे विंशत्युत्तरं प्रकृतीनां शतं भवति | ज्ञातव्यं । ननु पूर्वोक्तद्विचत्वारिंशदुत्तरप्रकृतिमध्ये ये बन्धनसंघातनाम्नी प्रतिपादिते ते सप्तषष्टिमध्ये कथं न गण्यते ? इत्याह-'बंधणेत्यादि, बन्धनसंघातौ शरीरग्रहणेन शरीरनामकर्मान्तर्भूतत्वेनेह-सप्तषष्टिभेदचिंतायां गृहीताविति पृथग्न विवक्षिती, तथा सत्तायां चिन्त्यमानायां नामकर्मप्रकृतयत्रिनवतिसङ्ख्या मतान्तरेण व्युत्तरशतसङ्ख्याश्चाधिक्रियन्ते ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१॥ ततः क्रमेण त्रिनवति व्युत्तरशतं चाह-'बंधणे त्यादिगाथाचतुष्कं, औदारिकवैक्रियाहारकतैजसकार्मणबन्धनभेदान्धननाम पञ्चधा, संघातनामापि Jain Education International For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy