SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ DI प्रवासा- रोद्धारे तत्त्वज्ञानवि० २१६ उत्तरप्रकृतयः गा१२५१-७५ ॥३५८॥ वतो दातुं न लभते जीवस्तहानान्तरायं, एवं यत्प्रभावतो जीवस्य लाभो न भवति तल्लाभान्तरायं, यत्प्रभावतो भोगान् परिभोगांश्च न प्राप्नोति तत्क्रमेण भोगान्तरायं परिभोगान्तरायं च, यत्प्रभावतश्च नीरुजोऽपि-नीरोगोऽपि जीवोऽशक्त:-असमर्थो भवति तद्वीर्यान्तराय, || इयमत्र भावना-यदुदयवशात् सति विभवे समागते च गुणवति पाने दत्तमस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तदानान्तरायं, तथा यदुदयवशाहानगुणेन प्रसिद्धादपि दातुर्गृहे विद्यमानमपि देयमर्थजातं याच्चाकुशलोऽपि गुणवानपि याचको न लभते तल्लाभान्तरायं, तथा यदुदयवशात् सत्यामपि विशिष्टाहारादिप्राप्तावसति च प्रत्याख्यानपरिणामे वैराग्ये वा केवलं कार्पण्यानोत्सहते भोक्तुं तद्भोगा|न्तरायं, एवं परिभोगान्तरायमपि भावनीयं, नवरं भोगपरिभोगयोरयं विशेष:-सकृद्भुज्यते इति भोग:-आहारमाल्यादिः, पुनः पुनः परिभुज्यते इति परिभोगो-भवनवनितादिः, तथा यदुदयवशात्सत्यपि नीरुजि शरीरे यौवनिकायामपि वर्तमानोऽल्पप्राणो भवति यदा बलवत्यपि शरीरे साध्येऽपि प्रयोजने हीनसत्त्वतया न प्रवर्तते तद्वीर्यान्तरायमिति, तथा विवक्षान्तरतः कारणान्तरतश्च नामकर्म नाना|प्रकार, तद्यथा-द्विचत्वारिंशद्भेदं सप्तषष्टिभेदं त्रिनवतिभेदं व्युत्तरशतभेदं च ॥ ५३ ॥ ५४॥ ५५ ॥ ५६ ॥ ५७ ॥ ५८ ॥ ५९॥ ॥६०॥ ६१ ॥ तत्र तावद् द्विचत्वारिंशद्भेदानाह–'पढमें'त्यादिगाथानवकं, प्रथमा द्विचत्वारिंशदियं द्रष्टव्या, तद्यथा-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम बन्धननाम संघातनाम संहनननाम संस्थाननाम वर्णनाम गन्धनाम रसनाम स्पर्शनाम अगुरुलघुनाम उपघातनाम पराघातनाम आनुपूर्वीनाम उच्छासनाम आतपनाम उद्योतनाम विहायोगतिनाम वसनाम स्थावरनाम बादरनाम सूक्ष्मनाम पर्याप्तनाम अपर्याप्तनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम आदेयनाम अनादेयनाम यश कीर्तिनाम अयशःकीर्तिनाम निर्माणनाम तीर्थकरनाम चेति । तथा एतेषामेव गत्यादीनां Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy