________________
।
SROSOSORRECAUSE OR
पोढा भवति, दर्शनावरणषट्कग्रहणे च सर्वत्रापीदमेव दर्शनावरणषट्वं ग्राह्यं, एतदेव दर्शनावरणषट्कं निद्रादिद्विरुक्तप्रकृतिस्त्यानर्षिभिः सहितं नवधा द्रष्टव्यमिति शेषः, सूत्रे च विभक्तिलोप आर्षत्वात् , निद्रादीनि निद्राप्रचलाशब्दौ द्विरुक्तौ वाचकत्वेन ययोस्ते निद्रादिद्विरुक्ते निद्रानिद्रा प्रचलाप्रचला चेत्यर्थः, एतदिह शास्त्रे नवविधं दर्शनावरणमुक्तं, एतच्च जीव-जीवस्य दर्शनं-सामान्योपयोगरूपमावृणोति-आच्छादयति, केवलं निद्रापञ्चकं प्राप्ताया दर्शनलब्धेरुपघातकृत् , दर्शनावरणचतुष्टयं तु मूलत एव दर्शनलब्धिमुपहन्ति, आह |च गन्धहस्ती-"निद्रादयः समधिगताया एव दर्शनलब्धरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तूद्गमोच्छेदित्वात् समूलघातं हन्ति दर्शनलब्धि"मिति, वेदनीयं द्विधा-सातवेदनीयमसातवेदनीयं च, एतच्च क्रमेण सुखदुःखनिमित्तं-सुखनिमित्तं सातवेदनीयं दुःखनिमि| तमसातवेदनीयमित्यर्थः, तथा मोहनीयं द्विधा-दर्शनमोहनीयं चारित्रमोहनीयं चेति, दर्शनं-सम्यक्त्वं तन्मोहयतीति दर्शनमोहनीयं, चारित्रं-सावद्येतरयोगनिवृत्तिप्रवृत्तिलिङ्गमात्मपरिणामरूपं तन्मोहयतीति चारित्रमोहनीयं, तत्र बहुतरवक्तव्यत्वात् प्रथमतश्चारित्रमोहनीयं निर्दिशति, तच्च द्विधा-कषायनोकषायभेदात् , तत्र क्रोधो मानो माया लोभश्चेत्यनन्तानुबन्धिनश्चत्वारः कषायाः, एवमेत एव क्रोधादयश्चत्वारः प्रत्येकमप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश्च मिलिताः षोडश, तथा एप वक्ष्यमाणो नवानां नोकषायाणां संदोहः-समूहः, तत्र स्त्रीपुरुषनपुंसकवरूपं वेदत्रयं हास्यरत्यरतिभयशोकजुगुप्सालक्षणं इदं हास्यपटकं च, दर्शनमोहनीयं तु मिथ्यात्वमिश्रसम्यक्त्वानां योगेन-मीलनेन त्रिधा इति मोहस्य-मोहनीयकर्मणोऽष्टाविंशतिभेदाः। तथा आयुषश्चतस्रः प्रकृतयः, तद्यथा
-नारकायुस्तिर्यगायुर्नरायुः सुरायुश्च, गोत्रं तु द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, अन्तरायं तु पुनः पञ्चविधं, तद्यथा-दानान्तरायं लाभान्त४ रायं भोगान्तरायं परिभोगान्तरायं वीर्यान्तरायं च, एतांश्च भेदान सुखावबोधार्थमर्थकथनद्वारेणैव सूत्रकृन्निर्दिशति-यस्यान्तरायस्य प्रभा
RANGACARRIA
Join Education International
For Private
Personel Use Only
www.jainelibrary.org