SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ मोक्षसुखाभिलाषुकैर्जीवैरिति ॥ ४७ ॥ श्रीआखदेवसूरिशिष्यैः श्रीनेमिचंद्रसूरिभिः स्वपरहिताय, आत्मनोऽविस्मृतये परेषां चावबोधाय इत्यर्थः, जीवसङ्ख्यायाः प्रतिपादकमिदं कुलकं-गाथासमुदायात्मकं रचितं - कृतमिति २१४ ॥ ४८ ॥ इदानीं 'कम्माई अट्ठति पञ्चदशोत्तरद्विशततमं द्वारमाह पढमं नाणावरणं १ बीयं पुण दंसणस्स आवरणं २ । तइयं च वेयणीयं ३ तहा चउत्थं च मोहणीयं ४ ॥ ४९ ॥ पंचममाउं ५ गोयं ६ छहं सत्तमगमंतरायमिह ७ । बहुतमपयडित्तेणं भणामि अट्टमपए नाम ८ ॥ ५० ॥ प्रथमं-आद्यं ज्ञानावरणं द्वितीयं पुनर्दर्शनावरणं तृतीयं च वेदनीयं तथा चतुर्थं च मोहनीयं पश्चममायुः गोत्रं षष्ठं सप्तमं चान्तरायं इह च बहुतमोत्तरप्रकृतित्वेन बहुवक्तव्यत्वात् भणामि अष्टमपदे अष्टमपदस्थाने वा नामकर्मेति, ग्रन्थान्तरे हि आयुर्नाम गोत्रमन्तरायं चेत्यनेन क्रमेण पठ्यते, इह तु बहूत्तरप्रकृतितया पर्यन्ते नामकर्मेति । तत्र ज्ञायते - परिच्छिद्यते वस्त्वनेनेति ज्ञानं - सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः आत्रियते- आच्छाद्यतेऽनेनेत्यावरणं - मिध्यात्वादिसचिवजीवव्यापाराहतकर्म वर्गणान्तःपाती विशिष्टपुद्ग| लसमूहः ज्ञानस्य-मत्यादेरावरणं ज्ञानावरणं १ तथा दृश्यतेऽनेनेति दर्शनं - सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः तस्यावरणं दर्शनावरणं २ तथा वेद्यते - आह्रादादिरूपेणानुभूयते यत्तद्वेदनीयं, यद्यपि सर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवद्वेदनीयश|ब्दस्य रूढिविषयत्वात् सातासातमेव कर्म वेदनीयमित्युच्यते, न शेषं ३ तथा मोहयति - सदसद्विवेक विकलं करोत्यात्मानमिति मोहनीयं ४ तथा एति - आगच्छति प्रतिबन्धकतां स्वकृतकर्मा वाप्तनरकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः अथवा आ-समन्तादेति - गच्छति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy