________________
प्रव० सा- ञ्चाशत्सङ्ख्या भवन्ति, तथा तैरेवाष्टपञ्चाशत्सयैः प्रत्येकमपर्याप्तपर्याप्तभेदमिन्नैः षोडशोत्तरशतं भवन्ति ॥ ४५ ॥ संज्ञिद्विकं-पर्याप्ताप- २१४ जीव
रोद्धारे र्याप्तसंज्ञिरूपं तेन हीना-रहिता पूर्वोक्ता या द्वात्रिंशत् तया संगतं-मिलितमेतदेव षोडशोत्तर शतं षट्चत्वारिंशं शतं भवति, संज्ञिद्वि- संख्याकुलतत्त्वज्ञा- कस्य तु षोडशोत्तरशतग्रहणेनैव ग्रहणाद्वर्जनमिति । तच्च षट्चत्वारिंशं शतं भव्याभव्यदूरभव्यासन्नभव्यलक्षणैश्चतुर्भिर्भेदैः संगृह्यते, इदमत्र दकम् गा. नवि० ॥ तात्पर्य-पूर्वोक्तस्य षट्चत्वारिंशदुत्तरशतस्य मध्ये केचिजीवा भव्याः केचिदभव्याः केचिद् दूरभव्याः केचिदासन्नभव्या इति, तत्र १२३२-४८
मुक्तिपर्यायेण भविष्यन्तीति भव्याः-सिद्धिगमनयोग्याः, न पुनरवश्यं सिद्धिगामिन एव, भव्यानामपि केषाञ्चित्सिद्धिगमनासंभवात् , ॥३५५॥
| उक्तं च "भव्वावि न सिज्झिस्संति केई" इत्यादि, भव्यविपरीता अभव्याः, तथा च ते न कदाचिदपि संसाराकूपारस्य पारं प्राप्नुवन्तः प्राप्नुवन्ति प्राप्स्यन्ति चेति, इदं च भव्यानां भव्यत्वमनादिकालसिद्धं शाश्वतमेव, न पुनः सामग्र्यन्तरेण पश्चाद्भवत्यपगच्छति वा, अभव्यत्वमप्यभव्यानामित्थमेव द्रष्टव्यं, यद्यपि च भव्यत्वाभव्यत्वाभ्यामेव सर्वेऽप्यमी जीवभेदाः संगृहीतास्तथापि भव्यविशेषत्वादेतौ दूरभव्यासन्नभव्यलक्षणौ भेदौ पृथगुपात्तौ, तत्र दूरेण-दीर्घतरेण कालेन भव्या-मुक्तिगामिनो दूरभव्याः-ये गोशालकवच्चिरान्मोक्षं | यास्यन्ति, ये पुनस्तेनैव भवेन द्विव्यादिभिर्वा भवैमोक्षं यास्यन्ति ते आसन्नभव्याः। इह च भव्यत्वाभव्यत्वलक्षणमेवमाचक्षते वृद्धाःदयः संसारविपक्षभूतं मोक्षं मन्यते तदवाप्त्यभिलाषं च सस्पृहं वहति किमहं भव्योऽभव्यो वा ? यदि भव्यस्तदा शोभनं अथाभव्यस्तदा | धिमामित्यादिचिन्तां च कदाचिदपि करोति स इत्यादिप्रकारेण चिह्वेन ज्ञायते भव्य इति, यस्य तु जातुचिदपि नेयं चिन्ता समुत्पन्ना
समुत्पद्यते समुत्पत्स्यते वा स ज्ञायतेऽभव्य इति, उक्तं चाचाराङ्गटीकायां-"अभव्यस्य हि भव्याभव्यशंकाया अभावादि"त्यादि |॥४६॥ संसारनिवासिना-भववर्तिनां जीवाना-प्राणिनामेतत् षट्चत्वारिंशदुत्तरं शतमात्मवत् पालनीयं-रक्षणीयं शिवसुखकाङ्किमिः
AEGLASSES
SAMAULICHAECSC
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org