SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Jain Education र्याप्तपर्याप्तभेदतः पोडश भवन्ति ॥ ४० ॥ एत एव षोडश अकायेन - सिद्धेन युक्ताः सप्तदशविधाः । तथा पूर्वोक्ता नपुंसकादिभेदा -नार कनपुंसक स्त्रीपुंनपुंसक तिर्यक्स्त्रीपुंनपुंसक मानव स्त्रीपुंवेददेवलक्षणा नवविधा अपि जीवाः प्रत्येकमपर्याप्ताः पर्याप्ताश्च सन्तोऽष्टादशभेदाः । तथा ते एव चाष्टादश अकर्मभिः - सिद्धैर्युक्ता एकोनविंशतिः ॥ ४१ ॥ पूर्व ये पृथिव्यादयो दशविधा जीवा भणिताः त एवापर्याप्तपर्याप्तभेदाभ्यां विंशतिसङ्ख्या भवन्ति, तथा तैरेव पृथिव्यादिभिर्विशति सङ्ख्यै में देरशरीरयुतैः - सिद्धसहितैः सद्भिरेकविंशतिर्जीवभेदा भवन्ति ॥ ४२ ॥ पृथिव्यप्तेजोवाय्वनन्तवनस्पतयः पञ्च प्रत्येकं सूक्ष्मवादरभेदतो दश भवन्ति, ते च सप्रत्येकाः - प्रत्येकवनस्पतिसहिता एकादश, द्वित्रिचतुरसंज्ञिसंज्ञिपश्चेन्द्रियाञ्च पञ्च मिलिताः षोडश, एते च प्रत्येकमपर्याप्तपर्याप्तभेदभिन्ना द्वात्रिंशद्भवन्ति, इयमत्र भावना - पृथि वीकायो द्विधा-सूक्ष्मो बादरच, पुनरेकैको द्विधा - अपर्याप्तः पर्याप्तश्चेति चतुर्विधः पृथ्वीकायः, एवं जलानलवायवोऽपि, वनस्पतिर्द्विधा - साधारणः प्रत्येकच, तत्र साधारणो द्विधा - सूक्ष्मो बादरश्च पुनरेकैको द्विधा - अपर्याप्तः पर्याप्तश्च प्रत्येकस्तु बादर एव स चापर्याप्तपर्याप्तभेदेन द्विविध इति पोढा वनस्पतिकायः, द्वित्रिचतुरसंज्ञिसंज्ञिपश्चेन्द्रियाः पुनः प्रत्येकमपर्याप्तपर्याप्तभेदतो द्विधा, मिलिताञ्च द्वात्रिं| शदिति ॥ ४३ ॥ नारकभवनपतिवनचरज्योतिष्ककल्पमैवेयकानुत्तर विमानोत्पन्ना जीवा यथाक्रमं सप्तदशअष्टपश्चद्वादशनवपञ्चभेदा भवन्ति, एवं च वैक्रियशरीरिणः षट्पञ्चाशद्भेदाः, एतदुक्तं भवति-रत्नप्रभादिपृथिवी सप्तकनिवासित्वेन नारकाः सप्तविधाः भवनपतयोऽसुरकुमारादिभेदतो दशविधाः व्यन्तराः पिशाचादिभेदादष्टविधाः ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः कल्पोपपन्नाः सौधर्मादिद्वाद| शदेवलोकोत्पन्नत्वेन द्वादशविधाः मैवेयकोत्पन्ना अधस्तनाधस्तनादिमैवेयकनवकनिवासित्वेन नवविधाः अनुत्तरविमानोत्पन्नास्तु विजयादिविमानपञ्चकोत्पन्नत्वेन पञ्चविधाः, सर्वमीलने च पट्पञ्चाशदिति ॥ ४४ ॥ ते सर्वेऽपि वैक्रियशरीरिणो नरतिर्यक्संगताः सन्तोऽष्टप For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy