SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञा २१४ जीवसंख्याकुलकम् गा. १२३२-४८ नवि० ॥३५४॥ तथा पूर्वोक्ता एव पृथिव्यादयः षड़िधा जीवा अकायसहिताः सप्तविधा भवन्ति, न विद्यते काय:-पञ्चप्रकारमपि शरीरं येषां तेऽकायाः -सिद्धाः ॥ ३५ ॥ अण्डजादिभेदतोऽष्टविधा जीवा भवन्ति, तत्र अण्डाज्जाता अण्डजाः-पक्षिगृहकोकिलामत्स्यसादयः रसाजाता रसजा:-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा जीवविशेषाः, जरायो:-गर्भवेष्टनाजातास्तद्वेष्टिता इत्यर्थः जरायुजा-मनुध्यगोमहिष्यादयः, संखेदाज्जाताः संस्खेदजा-मत्कुणयूकाशतपदिकादयः, पोतं-वस्त्रं तद्वज्जाताः पोतादिव बोहिस्थाज्जाता अजरायुवेष्टिता इत्यर्थः पोतजा-हस्तिवल्गुलीचर्मजलूकाप्रभृतयः, संमूर्छन निवृत्ता: संमूर्छिमाः-कृमिपिपीलिकामक्षिकाशालिकादयः, उद्देदाद्-भूमिभेदाजाता उद्भेदजाः-पतङ्गखजनकादयः, उपपाते-देवशयनीयादी भवा औपपातिका:-देवा नारकाश्चेति ॥ ३६ ।। पृथिव्यादयः-पृथिव्यजोवायुवनस्पतयः पञ्च द्वित्रिचतुःपञ्चेन्द्रिययुक्ता नवविधा जीवा भवन्ति, अथवा नारका नपुंसकत्वेनेकविधाः तिर्यञ्चो नराश्च त्रिवेदत्वेन-स्त्रीनपुंसकवेदत्वेन प्रत्येकं त्रिभेदाः सुराश्च स्त्रीपुरुषभेदत्वेन द्विविधाः इत्येवं नवविधा जीवाः ॥ ३७ ॥ पृथिव्यादयः-पृथिव्यजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियलक्षणा अष्टौ जीवाः असंज्ञिसंज्ञिपञ्चेन्द्रियेण सहिता दशविधा भवन्ति, तथा त एव दशविधा जीवाः | ससिद्धाः-सिद्धसहिता एकादशविधा भवन्ति, तथा पृथिव्यादयस्त्रसान्ताः, पृथिव्यप्तेजोवायुवनस्पतित्रसा इत्यर्थः, प्रत्येकमपर्याप्तपर्याप्तभेदतो द्वादशविधा भवन्ति ॥ ३८ ॥ ते द्वादशापि अतनुयुक्तास्त्रयोदश भवन्ति, न विद्यते तनु:-शरीरं येषां तेऽतनवः-सिद्धाः, तथा एकेन्द्रिया द्विधा-सूक्ष्मा बादराश्च, तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियास्तु द्विविधाः-असंज्ञिनः संज्ञिनश्च, एते सप्तापि प्रत्येकमपर्याप्ताः पर्याप्ताश्चेति चतुर्दशविधा जीवाः ॥ ३९ ॥ एत एव चतुर्दश अमलसहिताः पञ्चदशविधाः, न विद्यते मल इव मलोनिसर्गनिर्मलजीवमालिन्यापादनहेतुत्वादष्टप्रकारं कर्म येषां तेऽमला:-सिद्धाः, तथा येऽण्डजरसजादयः पूर्वमष्टौ जीवभेदा भणितास्तेऽप ॥३५४॥ - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy