SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ दुगहीण बत्तीससंगयं तं सयं छयत्तालं। तं भवाभवगदूरभव आसन्नभवंच॥४६॥ संसारनिवासीणं जीवाण सयं इमं छयत्तालं । अप्पं व पालियचं सिवसुहकंखीहिं जीवहिं॥४७॥ सिरि अम्मएवमुणिवइविणेयसिरिनेमिचंदसूरीहिं। सपरहियत्थं रइयं कुलयमिणं जीवसंखाए॥४८॥ नत्वा-प्रणम्य नेमि-द्वाविंशतीर्थकरं एकादिकां-एकद्विव्यादिका जीवसङ्ख्या भणामि-कथयामि समयात्-सिद्धान्तात् , न पुनः स्खमनीषिकयेति । तत्र चेतनायुक्ताः-चैतन्योपेता जीवा एके-एकविधाः, उपयोगलक्षणत्वाजीवानां, सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात् , सततावबोधाभावे चाजीवत्वप्रसङ्गात् , तथा भवस्थसिद्धभेदेन द्विधा जीवाः, तत्र भवस्था:-संसारवर्तिनः सिद्धा-18 मुक्तिपदप्राप्ताः ॥ ३२ ॥ अथवा त्रसस्थावरभेदेन द्विधा जीवाः, तत्र त्रसा-द्वीन्द्रियादयः स्थावरा:-पृथिव्यादय एकेन्द्रियाः, तथा | त्रिविधाः स्त्रीपुंनपुंसकभेदतः, इह ख्यादयः ख्यादिवेदोदयात् योन्यादिसंगता गृह्यन्ते, तथा चोक्तम्-"योनिर्मुदुत्वमस्थैर्य, मुग्धताऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ १॥ मेहनं खरता दाळ, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३॥” तथा नारकतिर्य| परामरगतिभेदतश्चतुर्भेदा जीवाः ॥ ३३ ॥ अथवा त्रिवेदावेदस्वरूपतो भवन्ति चतुर्विधा जीवाः, वाशब्दः समुच्चये, तत्र त्रिवेदात्रयः -पुरुषाः स्त्रियो नपुंसकाच, न विद्यते वेद उपशमितत्वात् क्षपितत्वाद्वा येषां ते अवेदा:-अनिवृत्तिबादरादयो भवस्थाः सिद्धाश्च । तथा एकद्वित्रिचतुःपञ्चेन्द्रियभेदतः पञ्चप्रकारास्ते जीवाः ॥ ३४ ॥ एत एव एकेन्द्रियादयः पञ्चप्रकारा जीवा अनिन्द्रिययुक्ताः षड्डिधा भवन्ति, न विद्यन्ते इन्द्रियाणि-स्पर्शनादीनि येषां तेऽनिन्द्रिया:-सिद्धाः, अथवा पृथिव्यप्तेजोवायुवनस्पतित्रसभेदतः पड्डिधा जीवाः, Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy