SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ मञ्जूषासंस्थानसंस्थिताः सदैव जाहव्या-गंगाया मुखेऽवस्थिताः चक्रवर्तिन उत्पत्तिकाले च भरतविजयानन्तरं चक्रवर्तिना सह पातालेन चक्रवर्तिपुरमनुगताः ॥ २८ ॥ वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमयाः-सौवर्णाः विविधरत्नपरिपूर्णाः, शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषां ते तथा, प्राकृतत्वात्प्रथमाबहुवचनस्य लोपः, 'अणुसमवयणोववत्तीयत्ति अनुरूपा समा-अविषमा वदनोपपत्ति:-द्वारघटना येषां ते तथा, 'अणुवमत्तिपाठे तु न विद्यते उपमावचनस्योपपत्तिः-घटना | येषां स्वरूपव्यावर्णने ते अनुपमवचनोपपत्तिकाः-उपमया प्रतिपादयितुमशक्याः , उपमाया एवाभावादिति भावः, कचित् 'अणुसमय|चयणोववत्तीय'त्तिपाठः, तत्र अनुसमयं-प्रतिसमयं पुद्गलानां च्यवनमुपपत्तिश्च येषां ते तथा, यावन्तस्तेभ्यः पुद्गला गलन्ति तावन्त एवानुसमयं लगन्तीत्यर्थः, स्थानाङ्गे तु 'अणुसमजुगबाहुवयणा यत्ति पठ्यते, तत्र चायमर्थः-अनुसमा-अनुरूपा अविषमा जुगत्ति-यूपस्तदाकारा वृत्तत्वादीर्घत्वाच्च बाहवो-द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ॥ २९ ॥ तेषु च निधिषु पल्योपमस्थितिका निधिसदृशनामानस्ते देवा भवन्ति येषां देवानां त एव निधय आवासा-आश्रयाः आधिपत्याय-आधिपत्यनिमित्तमक्रेयाः, न तेषामाधिपत्यं क्रयेण लभ्यमिति भावः ॥ ३० ॥ एते ते नव निधयः प्रभूतधनरत्नसंचयसमृद्धाः ये सर्वेषामपि भरतक्षेत्राधिपचक्रवर्तिनां वशमुपयान्तीति २१३ ।। ३१ ॥ इदानीं 'जीवसंखा उत्ति चतुर्दशोत्तरद्विशततमं द्वारं बिभणिषुः स्वकृतमेव जीवसङ्ख्याप्रतिपादकं कुलकमत्र ग्रन्थे निक्षिप्तवान् ग्रन्थकारः, तत्र चेयमादिगाथा नमिउं नेमि एगाइजीवसंखं भणामि समयाओ। चेयणजुत्ता एगे १ भवत्यसिद्धा दुहा जीवा २॥३२॥ तस थावरा य दुविहा २ तिविहा थीपुंनपुंसगविभेया ३ । नारयतिरियनरामरगइभे Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy