________________
6-26
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥३५२॥
1-3-34-
3
भावः, तथा जगति त्रयो वंशाः, वंशः प्रवाह आवलिकेत्यनान्तरं, तद्यथा-तीर्थकरवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च, तेषु त्रिष्वपि 3.२१३ नववंशेषु यद्भव्यं-भावि यच्च पुराणं-अतीतं, उपलक्षणमेतत् वर्तमानं च, 'तिसुवि वासेसुत्तिपाठे तु अनागतवस्तुविषयमतीतवस्तुविषयं निधिस्वरूच कालज्ञानं क्रमेणानागतातीतवर्षत्रयगोचरमिति, क्वचिद् 'भवपुराणं च तिसुवि कालेसु'त्ति पाठः, तत्र च त्रिष्वपि कालेषु-वर्तमा
| पम् गा. नातीतानागतेषु भव्य-शुभं पुराणं च-अशुभं कालज्ञानमिति, तथा यत् शिल्पशत-घटलोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येक
१२१८-३१ विंशतिभेदत्वात् यानि च कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदमिन्नानि त्रीणि कर्माणि प्रजाया हितकराणि तदेतत्सर्वमभिधीयते ॥ २४ ॥ महाकाले निधौ लोहस्य नानाभेदमिन्नस्योत्पत्तिराख्यायते, रूप्यसुवर्णमणिमुक्ताशिलाप्रवालानां संबन्धिनामाकराणां च, तत्र | रूप्यसुवर्णे प्रतीते मणय:-चन्द्रकान्तादयः मुक्ता-मौक्तिकानि शिला:-स्फाटिकादिका प्रवालानि-विट्ठमाणीति ॥ २५ ॥ माणवके निधौ योधाना-शूरपुरुषाणामावरणाना-खेटकादीनां प्रहरणानां-खड्गादीनां च यत्र यथा वा उत्पत्तिर्भवति तथाऽभिधीयते, तथा सर्वाऽपि युद्धनीतिः-व्यूहरचनादिलक्षणा, सर्वाऽपि च दण्डनीतिः-सामादिचतुर्विधाऽऽख्यायते ॥ २६ ॥ शशामिधाने पुनर्महानिधौ सर्वोऽपि नर्तनविधि:-नृत्यकरणप्रकारः सर्वोऽपि च नाटकविधि:-अभिनेयप्रबन्धप्रपञ्चनप्रकारः, तथा धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धस्य यद्वा संस्कृतप्राकृतापभ्रंशसंकीर्णभाषानिबद्धस्य गद्यपद्यगेयचौर्णपदबद्धस्य वा चतुर्विधस्यापि काव्यस्य तथा सर्वेषां त्रुटिताङ्गानामातोद्यापरपर्यायाणामुत्पत्तिराख्यायते । अन्ये त्वेते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषु साक्षादेव समुत्पद्यन्ते इति व्याख्यानयन्ति ॥२७॥ अथ नवाना-| मपि निधीनां साधारणं स्वरूपमाह-'चक्कठपई'त्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं-अवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः, प्राकृतत्वादष्टशब्दस्य
॥३५२॥ परनिपातः, अष्टौ योजनानि उत्सेधः-उच्चैस्त्वं येषां ते तथा, नव च योजनानि विष्कम्भेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्घाः,
0-
Jan Education Intematon
For Private Personel Use Only
www.jainelibrary.org