SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ नैसर्पः पाण्डुकः पिङ्गलकः सर्वरत्नः महापद्मः कालः महाकालः माणवकः महानिधिः शङ्खश्च, एते नव निधयः, एतेषु च निधिषु कल्पपुस्तकानि शाश्वतानि वर्तन्ते, तेषु च विश्वस्थितिराख्यायते ॥ १८॥ तत्र यस्मिन्निधौ यदाख्यायते तदाह-'नेसप्पंमी'त्यादिगाथा एकादश, नैसर्प-नैसमिधे निधौ प्रामाकरनगरपत्तनानां द्रोणमुखमडम्बानां स्कन्धावाराणां गृहाणां चशब्दादापणानां च निवेशा:स्थापनान्याख्यायन्ते, तत्र ग्रामो-वृत्त्यावृतः आकरो-यत्र सन्निवेशे लवणाधुत्पद्यते नगर-राजधानी पत्तनं-जलस्थलनिर्गमप्रवेशं द्रोणमुखं-जलनिर्गमप्रवेशं अर्धतृतीयगव्यूतान्तीमान्तररहितं मडम्बं स्कन्धावार:-कटकनिवेशः गृह-भवनं आपणो-हट्ट इति ॥ १९॥ गणितस्य-दीनारादिपूगफलादिलक्षणस्य तथा गीतानां-खरकरणपाटकरणधूपकागारुकटिकिकाप्रभृतीनां प्रवन्धानां, तथा मान-सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः तथा उन्मानं-तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं, खण्डगुडादि धरिममित्यर्थः, ततः समाहारद्वन्द्वः ततस्तस्य यत्प्रमाणं, तथा धान्यबीजानां च-शाल्यादीनां देशकालौचित्येनोत्पत्तिः-निष्पत्तिः पाण्डुकनिधौ भणिताव्यावर्णिता ॥ २०॥ सर्वोऽप्याभरणविधिर्यः पुरुषाणां यश्च महिलानां तथा अश्वानां हस्तिनां च स ययौचित्येन पिङ्गलनामके महानिधौ भणितः ॥ २१ ॥ इह चक्रवर्तिनश्चतुर्दश रत्नानि सर्वोत्तमानि भवन्ति, तद्यथा-चक्रप्रमुखाणि सप्त एकेन्द्रियाणि सेनापतिप्रमुखाणि सप्त पञ्चेन्द्रियाणि, तानि चतुर्दशापि सर्वरनास्ये महानिधौ उत्पद्यन्ते, तदुत्पत्तिस्तत्र व्यावर्णितेत्यर्थः, अन्ये त्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् स्फीतिमन्ति च भवन्तीत्यर्थः ॥ २२ ॥ सर्वेषामपि वस्त्राणां या उत्पत्तिः तथा सर्वेषामपि वस्त्रादिगतानां भक्तिविशेषाणां सर्वेषामपि च रङ्गाणां-मजिष्ठाकृमिरागकुसुम्भादीनां धातूनां च-लोहताम्रादीनां 'धोबाण यत्ति पाठे तु सर्वेषां वस्त्रादिप्रक्षालनविधीनां |या निष्पत्तिः सर्वा चैषा महापद्मे निधावभिधीयते ॥ २३ ॥ काले-कालनामनि निधी कालज्ञान-समस्तज्योतिःशास्त्रानुगतं ज्ञानमिति CASCCSAARCCCCCCES Jan Education Intemanona For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy