SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - धम्मधराधरणमहावराहजिणचन्दसूरिसिस्साणं । सिरिअम्मएवसूरीण पाकपंकयपराएहिं ॥ १५९५ ॥ सिरिविजयसेणगणहरकणिट्ठसिरि जसदेवसूरिजिडेहिं । सिरिनेमिचंदसूरिहिं सविणयं सिस्सभणिएहिं ॥ १५९६ ॥ त्रिष्वपि एतेषु आचार्यपदप्रतिष्ठा यद्यपि तथापि मुख्याचार्या विजयसेना एवेत्यपि प्रस्तुतगाथापाठादवगम्यते । अस्मिंश्च प्रन्थे श्रीमद्भिः प्राक् स्वयं विहितं जीवकुलकं न्यवेशि तत्तस्य पृथग्भूतस्य लघुतया विनाशो मा भूदिति, यतस्तत् जीवभेदाख्यानं मुख्यद्वारतयोपादाय तन्निरूपणे तन्निरदेशि, यद्यपि सूरीश्वरैर्न हायननिर्देशो व्यधायि परं पूज्यपादविहितानामपरेषां ग्रन्थानामवलोकने तदवगमः सुसाध एव, पूज्यपादविहिताश्च एते ग्रन्था उपलभ्यन्ते१ उत्तराध्ययनस्य सुखबोधाख्या वृत्तिः, यतस्तत्र स्पष्ट उल्लेखोऽयं विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः, सूरिरुद्योतनाभिधः ॥ १ ॥ तस्य शिष्योऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैलेंभे पदं नतु ॥ २॥ देवेन्द्रगणिश्चेमामुद्धृतवान् वृत्तिका तद्विनेयः । गुरुसौदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन ॥ ३ ॥ शोधयतु बृहदनुग्रहबुद्धि(मुरुं)मयि विधाय विज्ञजनः । तत्र मिथ्या दुष्कृतमस्तु कृतमसंगतं यदिह ।। ४ ।। अणहिलपाटकनगरे दोहटिश्रेष्ठिसत्कवसतौ च । संतिष्ठता कृतेयं नवकरहरवत्सरे चैव ॥ ५॥ (११२९) अनेनोल्लेखेन स्पष्टैव सत्ता श्रीमतां नेमिचन्द्राणां साधैंकादशशतकादक्तिना प्रतीयते, पूज्याश्च प्राचुर्येण अणहिल्लपत्तने दोहट्टिश्रेष्टि 64544SANSAR Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy