SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रवचन सिद्धसेनीय ॥ २ ॥ हकमि' 'ता नन्द बहु पढिज्ांतों' इति प्रान्त्यवाक्यद्वयाश्च प्रवचनसारभूतानां पदार्थानां ज्ञानमेव मुख्यं प्रयोजनमिति, एवं चानुमीयते प्राक् तावत् विचारसारस्य प्रादुर्भावः, दृष्ट्वा च तल्लाभं प्रस्तुतप्रकरणस्य श्रीमद्भिर्विहितः प्रादुर्भावः । किंचान्यत्-प्रद्युम्नसूरयो विचारसारस्य विधातारो यथभविष्यन् विक्रमशताब्याः त्रयोदश्याः परतस्तदा श्रीवासिद्धसेनदिवाकरार्थरक्षित हरिभद्रवप्पभट्टीनां सूरिपुरन्दराणां सत्ताकालमिव श्रीमतां कलिकालसर्वज्ञानां हेमचन्द्रसूरीणां निरदेश्यन्नेव सत्ताकालं यत् श्रीमन्तो हेमचन्द्रसूरयश्च स्वजीवनकाल एवैतिहासिक पुरुषतामधिगताः, यतः श्रीमन्महिमानमाविर्भावयितुं विहितं तत्कालवर्त्तिभिरेव श्रीमद्भिः सोमप्रभसूरिभिः कुमारपालप्रतिबोधकाव्यं, त्रयोदश विक्रमशताब्दीसंभूतैः श्रीमलयगिरिभिरावश्यकवृत्तौ श्रीदेवेन्द्रसूरिभिः कर्मग्रन्थवृत्तौ श्रीचन्द्रसेनसूरिभिरुत्पादसिद्धौ साक्षितया स्तुत्यतया च ते निर्दिष्टाः, तथा कल्किकालो यो भविष्यत्तयोक्तः त्रयोविंशत्यधिकत्रयोदशशताब्दीरूपस्तं नाकथयिष्यन् । अन्यच्च - साक्षिस्थानेषु अनेकत्र ग्रन्थोद्देशे न कापि श्रीमन्मलयगिर्यादिकृतानां वृत्तीनामुल्लेखः । एवं सत्यपि प्राक्तनप्रन्थेषु तथोल्लेखाभावात् तस्य न निश्शङ्कं भणितुं शक्यते श्रीधर्मघोषसूरयः प्रद्युम्न्नगुरवः १२९४ हायनसत्ताका इति । पश्चादेत इति उल्लेखस्तु विचारसारस्य साक्ष्यं श्राद्धविधिविरचनाकालात् प्राक् न कुत्रापि दृष्टश्चरमितिहेतोः, प्रस्तुतस्यापि मन्थरत्नस्य सवृ|त्तिकस्यापि ततः प्राक् न क्वापि अस्त्युलेखः, परमस्य वृत्तेः सद्भावात् तत्र च स्पष्टतयैव 'करिसागर रविसंख्ये' इत्यनेन अष्टसप्तत्यधिकद्वादशशताब्द्या विक्रमस्योल्लेखात् प्रस्तुतं प्रन्थरत्नमन्ततो द्वादश्यां त्रयोदश्यां वा शताब्द्यामेव जातमिति निश्चीयते । श्रीमतां नेमिचन्द्राचार्याणां मूलकाराणां वृद्धगुरुभ्रातरो विजयसेनाः लघुगुरुभ्रातरस्तु यशोदेवाभिधानाः, गुरुवर्या आम्रदेवाः, गुरुगुरवस्तु जिनचन्द्राहा इति पारम्पर्यादि तैः साक्षादुन्नीतं प्रन्थप्रान्तभागे, तद्यथा Jain Education International For Private & Personal Use Only Xxxx उपोद्घातः ॥ २ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy