SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Jain Education | स्कन्धावारे विषमोन्नतविभागेषु समत्वकारि शान्तिकरं चक्रवर्तिनो हितेप्सितमनोरथपूरकं दिव्यमप्रतिहतं प्रयत्नविशेषतश्च व्यापार्यमाणं योजनसहस्रमप्यधः प्रविशति १४ । एतानि चतुर्दश रत्नानि प्रत्येकं यक्षसहस्राधिष्ठितानि भवन्ति तथैतानि सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि चक्रादीनि सप्त एकेन्द्रियाणि पृथिवीपरिणामरूपाणि प्रत्येकं जम्बूद्वीपे जघन्यपदेऽष्टाविंशतिरेककालं प्राप्यन्ते, जघन्यतोऽपि चक्रवर्तिचतुष्टयसद्भावात्, उत्कृष्टतस्तु दशोत्तरद्विशतसङ्ख्यानि, चक्रवर्तिनो ह्येककालं त्रिंशद्भवन्ति, यथा अष्टाविंशतिर्विदेहे एकैको भरतै - रखतयोः, सप्तानां च त्रिंशता गुणने द्वे शते दशोत्तरे भवत इति ॥ १४ ॥ अथ रत्नप्रस्तावाद्वासुदेवस्यापि रत्नान्याह — 'चक्क 'मित्यादि, चक्रखङ्गधनुर्मणयः प्रतीताः माला सदैव चाम्लाना देवार्पिता गदा - कौमोदकी नाम प्रहरणविशेषः शङ्खः - पाञ्चजन्यो द्वादशयोजनविस्तारिध्वानः, एतानि सप्त रत्नानि सर्वेषामपि वासुदेवानां भवन्ति ॥ १५ ॥ अथ सप्तानामप्येकेन्द्रियरत्नानां प्रमाणमाह – 'चक्क 'मित्यादि गाथाद्वयं, चक्रं छत्रं दण्डमित्येतानि त्रीण्यपि रत्नानि व्यामप्रमाणानि, व्यामो नाम प्रसारितोभयबाहोः पुंसस्तिर्यग्हस्तद्वयाङ्गुलयोरन्तरालं, चर्मरत्नं द्विहस्तदैर्ध्य, द्वात्रिंशदङ्गुलदीर्घोऽसि:-खड्गरत्नं, तथा दैर्घ्यमधिकृत्य मणिः पुनश्चतुरङ्गुलप्रमाणः, तस्य - दैर्घ्यस्यार्ध द्वे अङ्गुले इत्यर्थः विस्तीर्णो- विस्तृतः, तथा चतुरङ्गुलप्रमाणा सुवर्णवरकाकिनी - जात्यसुवर्णमयी काकिनीनाम रत्नं ज्ञेया, एतानि सप्ताध्ये - केन्द्रियरत्नानि सर्वचक्रवर्तिनामात्माङ्गुलेन ज्ञेयानि शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्तत्कालीन पुरुषोचितमानानीति २१२ ॥ १६ ॥ ॥ १७ ॥ सम्प्रति 'नव निहिओ'त्ति त्रयोदशोत्तरद्विशततमं द्वारमाह सप्पे १ पंडुयए २ पिंगलए ३ सवरयण ४ महप मे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९ ॥ १८ ॥ नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडवाणं खंधा For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy