SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- चर्मरत्नं छत्रस्याधस्ताच्चक्रवर्तिहस्तस्पर्शप्रभावसंजातद्वादशयोजनायामविस्तारं प्रातरुप्तापराहसंपन्नोपभोग्यशाल्यादिसम्पत्तिकरं १० मणिरत्नं २१२चक्रिरोद्धारे ४ वैडूर्यमय व्यत्रं षडंशं यथाक्रममूर्द्धाधःस्थितयोश्छत्रचर्मरत्नयोरपान्तराले छत्रतुम्बे न्यस्तं सद् द्वादशयोजनविस्तारिणः समस्तस्यापि चक्र- वासुदेवरतत्त्वज्ञा- लावर्तिकटकस्य निरुपमप्रकाशकारि तमिस्रगुहायां खण्डप्रपातगुहायां च प्रविशतश्चक्रवर्तिनो हस्तिरत्नदक्षिणशिरसि निबद्धं च द्वादश योज- लानि गा. नवि० |नानि यावत्पूर्वापरपुरतोरूपासु तिसृषु दिक्षु निबिडतममपि तमःस्तोममपहरति, यस्य च हस्ते शिरसि वा बद्ध्यते तस्य दिव्यतिर्यग्मनु- १२१३-१७ प्यकृतसमस्तोपद्रवसमस्तरोगापहारं करोति, एतच्च मूर्ध्यन्यत्र वाऽङ्गे व्यवस्थाप्य संग्रामे प्रविष्टः सन् शस्त्रैरवध्यो भवति सर्वभयविमुक्त|श्वोपजायते, अन्यच्च-तस्मिन् मणिरत्ने सदा मणिबन्धादौ व्यवस्थितेऽवस्थितयौवनोऽवस्थितकेशनखश्चोपजायते. पुमान् ११ काकिणीरत्नमष्टसौवर्णिकं समचतुरस्रसंस्थानसंस्थितं विषापहारसमर्थ यत्र चन्द्रप्रभा सूर्यप्रभा वहिदीप्तिर्वा न तमःस्तोममपहर्तुमलं भवति तत्र तमिस्रगुहायामतिनिबिडतिमिरतिरस्करणदक्षं, यस्य दिव्यप्रभावकलिततया द्वादश योजनानि यावत्तमिस्रविसरविनाशिका गभस्तयो विवधन्ते, यच्च सर्वकालं चक्रवर्ती निजस्कन्धावारे रात्रौ स्थापयति, तद्धि दिवसालोकभूतं प्रकाशं रजन्यामादधाति, यस्य च प्रभावेण चक्रवर्ती द्वितीयमधभरतममिजेतुं सकलसैन्यसमेतस्तमिस्र गुहायां प्रविशति, तथा च तत्र प्रविष्टः सन् स पूर्वमित्तितटे पश्चिममित्तितटे च प्रत्येक योजनान्तरितानि पञ्चधनुःशतायामविष्कम्भान्युभयपार्श्वयोर्योजनोद्योतकराणि चक्रनेमिसंस्थानानि चन्द्रमण्डलप्रतिनिभानि वृत्तहिरण्यरेखारूपाणि गोमूत्रिकान्यानेनैकस्यां मित्तौ पञ्चविंशतिरपरस्यां तु चतुर्विशतिरित्येकोनपञ्चाशतं मण्डलान्यालिखन् ब्रजति, || तानि च मण्डलानि यावच्चक्रवर्ती चक्रवर्तिपदं परिपालयति तावदवतिष्ठन्ते, गुहाऽपि तथैवोद्घाटिता तिष्ठति, उपरते तु चक्रिणि तत्स-115॥३५॥ मुपरमते १२ खड्गरत्न-संग्रामभूमावप्रतिहतशक्तिः १३ दण्डरनं रत्नमयपश्चलताकं वज्रसारमयं सर्वशत्रुसैन्यविनाशकारक, चक्रवर्तिनः Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy