________________
सेणावर १ गाहावर २ पुरोहिय ३ तुरय ४ गय ५ वहुई ६ इत्थी ७ । चक्कं ८ छतं ९ चम्मं १० मणि ११ कागिणि १२ खग्ग १३ दंडो १४ य ॥ १४ ॥ चक्कं १ खग्गं २ च धणू ३ मणी ४ य माला ५ तहा गया ६ संखो ७ । एए सत्त उ रयणा सवेसिं वासुदेवाणं ॥ १५ ॥ चक्कं छतं दंडं तिनिवि एयाई वाममित्तानं । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ १६ ॥ चउरंगुलो मणी पुण तस्सद्धं चैव होइ विच्छिन्नो । चउरंगुलप्पमाणा सुवन्नवरकागिणी नेया ॥ १७ ॥
सेनापतिः १ गृहपतिः २ पुरोहितः ३ तुरगः ४ गजः ५ वर्धकिः ६ स्त्री ७ चक्रं ८ छत्रं ९ चर्म १० मणिः ११ काकिनी १२ खड्गो १३ दण्ड १४ श्वेत्येतानि चतुर्दशापि रत्नानि निगन्द्यते, 'रत्नं निगद्यते तज्जातौ जातौ यदुत्कुष्ट' मिति वचनात् सेनापत्यादिजातिषु वीर्यत उत्कृष्टत्वेन रत्नानीत्युच्यन्ते, तत्र सेनापतिः - दलनायको गङ्गासिन्धुपरपारविजये बलिष्टः १ गृहपतिः - चक्रवर्तिगृहसमुचितेतिकर्तव्यतापरः शाल्यादिसर्वधान्यानां समस्तखादु सहकारादिफलानां सकलशाकविशेषाणां निष्पादकञ्च २ पुरोहितः - शान्तिकर्मादिकृत् ३ तुरङ्गमगजी प्रकृष्टवेगमहापराक्रमादिगुणसमन्वितौ ४-५ वर्धकिः - गृहनिवेशादिसूत्रणाकारी, यस्तमिस्रगुहायां खण्डप्रपातगुहायां चोन्मन्नजला निमनजलयोर्नद्योश्चक्रवर्त्तिसैन्योत्तरणाय काष्ठमयं सेतुबन्धं करोति ६ स्त्रीरत्नमत्यद्भुतकामसुखनिधानं ७ चक्रं समस्तायुधातिशायि दुर्दमरिपुजयकरं ८ छत्रं चक्रवर्तिहस्त संस्पर्श प्रभावसंजातद्वादशयोजनायामविस्तारं सत् वैताढ्य नगोत्तरविभागवर्तिम्लेच्छानुरोधिमेघकुमावृष्टाम्बुभरनिरसनसमर्थं नवनवतिसहस्रकाञ्चनशलाकापरिमण्डितं निर्वणसुप्रशस्तकाञ्चनमयोद्दण्डदण्डं वस्तिप्रदेशे पञ्जरविराजितं राजलक्ष्मीचिह्नमर्जुनाभिधानपाण्डुरस्वर्ण प्रत्यवस्तृतपृष्ठदेशं शारदसंपूर्ण पूर्णिमामृगाङ्कमण्डलमनोहरं तपनातपवातवृष्टिप्रभृतिदोषक्षयकारकं ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org