________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ३४९ ॥
Jain Education
सीताभर्ता राम इत्यर्थः नवमो रामः कृष्णसहचरः अपश्चिमः - सर्वान्तिमो, न विद्यते पश्चिमो यस्मादिति व्युत्पत्तेः २०९ ॥ ११ ॥ सम्प्रति 'हरिणो' त्ति दशोत्तरद्विशततमं द्वारमाह
तिविट्ठू य १ दुवि य २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५ । तह पुरिसपुंडरीए ६ दत्ते ७ नारायणे ८ कण्हे ९ ॥ १२॥
त्रिपृष्ठः प्रथमो वासुदेवः प्राकृतत्वादार्षत्वाच्च सूत्रे 'तिविहूत्ति निर्देशः, द्वितीयो द्विपृष्ठः तृतीयः स्वयम्भूः चतुर्थ: पुरुषोत्तमः पञ्चमः पुरुषसिंहः षष्ठः पुरुषपुण्डरीकः सप्तमो दत्तः अष्टमो नारायणो रामभ्राता लक्ष्मण इत्यर्थः, नवमः कृष्णः २१० ॥ १२ ॥ इदानीं 'पडिवासुदेव' स्येकादशोत्तरद्विशततमं द्वारमाह
आसग्गीवे १ तारय २ मेरए ३ मधुकेढवे ४ निसुंभे ५ य । बलि ६ पहराए ७ तह रावणे य ८ नवमे जरासिंधू ९ ॥ १३॥
अश्वमीवः प्रथमः प्रतिवासुदेवः तारको द्वितीय: मेरकस्तृतीयः मधुकैटभश्चतुर्थः, अस्य च मधुरित्येव नाम केवलं कैटभामिव भ्रातृसंबन्धान्मधुकैटभ इत्युच्यते, निशुम्भः पञ्चमः बलिः षष्ठः प्रभाराजः प्रह्लादो वा सप्तमः रावणोऽष्टमः जरासन्धो नवमः, एते सर्वेऽपि त्रिपृष्ठादीनां नवानामपि वासुदेवानां यथाक्रमं प्रतिशत्रवः, तथा सर्वेऽपि चक्रयोधिनः सर्वेऽपि च हताः स्वचत्रैः, यतस्तान्येव प्रतिवासुदेवचक्राणि प्रतिवासुदेवैर्वासुदेवव्यापत्तये क्षिप्तानि पुण्योदयवशाद्वासुदेवान् प्रणम्य वासुदेवहस्ते चटितानि तैः क्षिप्तानि तान्येव प्रतिवासुदेवान् व्यापादयन्ति २११ ॥ १३ ॥ सम्प्रति 'रयणाई चउदसति द्वादशोत्तरद्विशततमं द्वारमाह
For Private & Personal Use Only
२०८-९१०-११चक्रिबलवा
सुदेवप्रति
वासुदेवाः
गा.
१२१०-१३
॥ ३४९ ॥
www.jainelibrary.org