________________
प्र. सा. ५९
प्रमाद्यति - मोक्षमार्ग प्रति शिथिलोद्यमो भवत्यनेन प्राणीति प्रमादः, स च मुनीन्द्रैः - तीर्थकृद्भिर्भणितः - प्रतिपादितो भवति, अष्टभेद:अष्टप्रकारः, तद्यथा - अज्ञानं मूढता संशयः - किमेतदेवं स्यादुतान्यथेति संदेह: मिथ्याज्ञानं विपर्यस्ता प्रतिपत्तिः रागः- अभिष्वङ्गः द्वेषः -अप्रीतिः स्मृतिभ्रंशो-विस्मरणशीलता धर्मे चात्प्रणीतेऽनादरः - अनुद्यमः योगानां - मनोवाक्कायानां दुष्प्रणिधानं दुष्टताकरणं, अयं | चाष्टविधोऽपि प्रमादः कर्मबन्धहेतुत्वाद्वर्जयितव्यः - परिहर्तव्य इति २०७ ॥ ७ ॥ ८ ॥ सम्प्रति 'भरहाहिव 'त्ति अष्टोत्तरद्विशततमं द्वारमाह -
भरहो १ सगरो २ मघवं ३ सणकुमारो य रायसद्दूलो ४ । संती ५ कुंथू ६ य अरो ७ हवह सुभूमो ८ कोरो ॥ ९ ॥ नवमो य महापउमो ९ हरिसेणो १० चेव रायसद्दूलो । जयनामो ११ य नरवई बारसमो बंभदत्तो य १२ ॥ १० ॥
भरतः प्रथमञ्चक्रवर्ती द्वितीयः सगरः - सगरनामा तृतीयो मघवान् चतुर्थः सनत्कुमारो राजशार्दूलः, शार्दूलशब्दः सिंहपर्यायः राज्ञां शार्दूल इव राजसु वा शार्दूलश्चक्रवर्तीत्यर्थः, पञ्चमः शान्तिनाथः षष्ठः कुन्थुनाथः सप्तमोऽरस्वामी अष्टमः सुभूमो भवति कौरव्यः --कौरव्यगोत्रः नवमो महापद्मः दशमो हरिषेणो राजशार्दूल :- चक्रवर्ती एकादशो जयनामा नरपतिः द्वादशो ब्रह्मदत्तः २०८ ॥ ९ ॥ १० ॥ इदानीं 'हलधर' त्ति नवोत्तरद्विशततमं द्वारमाह
अपले १ विजये २ भद्दे ३, सुप्पभे य ४ सुदंसणे ५ । आनंदे ३ नंदणे ७ पउमे ८, रामे यावि ९ अपच्छिमे ॥ ११ ॥
प्रथमो बलदेवोऽचलः द्वितीयो विजयः तृतीयो भद्रः चतुर्थः सुप्रभः पञ्चमः सुदर्शनः षष्ठ आनन्दः सप्तमो नन्दनः अष्टमः पद्मः
Jain Education International
For Private & Personal Use Only
1-4-%
www.jainelibrary.org