SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३४८ ॥ वेत्ति ? किं वाऽनया ज्ञातया ? २ सदसती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? ३ अवक्तव्या भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? ४ एतेषां च भङ्गानामयं तात्पर्यार्थः - इह पदार्थस्योत्पत्तिः किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ? ज्ञातेन वा न किञ्चिदपि प्रयोजनमिति, शेषविकल्पत्रयं तु उत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम्, एतैश्चतुर्भिभङ्गैर्मिलितैः त्रिषष्टिमध्ये प्रक्षिप्तैर्जाता एषा भङ्गकानां सप्तषष्टिरज्ञानिकानामिति ॥ ३ ॥ ४ ॥ इदानीं वैनयिकानां द्वात्रिंशद्भेदानाह'सुरे' त्यादिगाथाद्वयं, सुरा - देवाः नृपतयो - राजानः यतयो - मुनयः ज्ञातयः - स्वजनाः स्थविरा - वृद्धाः अवमा-अनुकम्पनीयाः कार्पेटिकादयः मातापितरौ प्रतीतौ एतेषामष्टानां प्रत्येकं मनोवचन कायदानैश्चतुर्विधो विनयः क्रियते, तद्यथा-सुराणां विनयं करोति मनसा | तथा वाचा तथा कायेन तथा देशकालोपपन्नदानेन इत्यादि, एते च विनयादेव केवलात्स्वर्गापवर्गमार्गमभ्युपगच्छन्ति, विनयश्च नीचैर्वृत्यनुत्सेकलक्षणः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठन् स्वर्गापवर्गभाग्भवतीति, तदेवमेतेऽष्टावपि भङ्गा चतुष्केण गुणिता द्वात्रिं| शद्वैनयिकभेदा भवन्तीति । सर्वैरप्येतैः पूर्वोक्तैः क्रियाऽक्रियाऽज्ञानवैनयिकवादिभेदैः पिंडितैः - एकीकृतैत्रीणि त्रिषष्ट्यधिकानि पाखण्डिनां शतानि भवन्तीति । एतेषां च प्रतिक्षेपः सूत्रकृताङ्गादिभ्यः समवसेयः २०६ || ५ || ६ || सम्प्रति 'अट्टहा पमाय'त्ति सप्तोत्तर - द्विशततमं द्वारमाह Jain Education International पद्माओ य मुणिंदेहिं, भणिओ अट्टभेयओ । अन्नाणं १ संसओ २ चेव, मिच्छानाणं ३ तहेव य ॥ ७ ॥ रागो ४ दोसो ५ मइन्भंसो ६, धम्मंमि य अणायरो ७ । जोगाणं दुप्पणिहाणं ८, अट्टहा वज्जियवओ ॥ ८ ॥ For Private & Personal Use Only प्रमादभेदाः गा. १२०७-८ ॥ ३४८ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy