________________
SASTERRACTECARRORSAM%
रोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्वावक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वाद्देशे चावक्तव्यत्वादिति ५ तथा एकदेशे परपर्यायैरसत्त्वेन विशेषितोऽन्यस्मिंस्तु देशे स्वपरपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति, अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्याकुम्भत्वात् देशे चावक्तव्यत्वादिति ६ तथा एकदेशे स्वपर्यायैः सत्त्वेन विशेषितः एकस्मिंस्तु देशे परपर्यायैरसत्त्वेन विशेषितोऽन्यस्मिंस्तु देशे स्वपरोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्चासंश्चावक्तव्यश्च भवति, घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वाद्देशेऽघटत्वाद्देशेऽवक्तव्यत्वादिति ७, एवं सप्तभेदो घटः, एवं पटादिरपि द्रष्टव्य एवेति, एतानि च सप्त पदानि जीवादीनां नवानां पदानां परिपाट्या पट्टिकादौ विन्यस्तानामधस्तात्क्रमेण प्रत्येकं स्थापयित्वा यथा-येन प्रकारेण क्रियतेऽमिलापस्तथा साहिष्यत इति कथ्यते निशम| यत-शृणुत, एतच्च शिष्याणामवहितत्वोत्पादनार्थमुक्तमिति ॥ ९९ ॥ १२०० ॥ तमेवामिलापमाह-संतो' इत्यादिगाथाद्वयं, सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेनेति प्रथमो भङ्गः, अस्य चायमर्थः-न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियमात्मानमवभोत्स्यते, न च तेन ज्ञातेनापि किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वाऽऽत्मा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः, एवं शेषैरप्यसदादिभिः षभिः पदैर्जीवभङ्गा भवन्ति, असन् जीवः को वेति ? किं वा तेन ज्ञातेनेत्यादि, इति जाता जीवपदस्य सप्त भङ्गाः, एवमजीवादीनामप्यष्टानां पदानां प्रत्येकं सप्त सप्त भङ्गा भवन्ति, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽन्येऽपि-अमी वक्ष्यमाणाः हुशब्दस्यावधारणार्थत्वाच्चत्वार एव भङ्गा इह-अज्ञानिकप्ररूपणप्रक्रमे भवन्ति ॥१॥ ४॥२॥ तानेवाह-संती'त्यादिगाथाद्वयं, सती भावोत्पत्तिः को जानाति ? किं वाऽनया ज्ञातया ? १ एवमसती भावोत्पत्तिः को
RSACAREERICA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org