________________
प्रव० सा-5 तत्त्वेन-जीवपदेन संप्राप्ता-लब्धाः, एवमजीवादिभिरपि षभिः पदैः प्रत्येकं द्वादश द्वादश विकल्पाः प्राप्ताः, ततो द्वादशभिः सप्तत्रिषष्ट्यधिरोद्धारे गुणिता जाताश्चतुरशीतिः, सर्वसङ्ख्यया चाक्रियावादिनामेते भेदा भवंतीति ॥ ९६ ॥ ९७ ॥ ९८ ॥ इदानीमज्ञानिकानां सप्तषष्टिसङ्ख्य- कशतत्रयीतत्त्वज्ञा- भेदानयनोपायमाह-संते'त्यादिगाथाद्वयं, सत्त्वं १ असत्त्वं २ सदसत्त्वं ३ अवक्तव्यत्वं ४ सवक्तव्यत्वं ५ असवक्तव्यत्वं ६ सद- पाषण्डिनवि० सवक्तव्यत्वं ७ चेति सप्त पदानि-सप्त भङ्गाः, तत्र सत्त्वं-खरूपेण विद्यमानत्वं, असत्त्वं-पररूपेणाविद्यमानत्वं, सदसत्त्वं-खपररूपाभ्यां नाम्
विद्यमानत्वाविद्यमानत्वं, तत्र यद्यपि सर्व वस्तु स्वपररूपाभ्यां सर्वदैव स्वभावत एव सदसत् तथापि कचित किञ्चित्कदाचिदुद्भूतं प्रमात्रा गा.११८८॥३४७॥
विवक्ष्यते तत एवं त्रयो विकल्पा भवन्ति, तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते तदा तद्बाचकः शब्दः कोऽपि १२०६ न विद्यते इति अवक्तव्यत्वं, यदा त्वेको भागः सन्नपरश्चावक्तव्यो युगपद्विवक्ष्यते तदा सवक्तव्यत्वं, यदा त्वेको भागोऽसन्नपरश्चावक्तव्यो युगपद्विवक्ष्यते तदाऽसदवक्तव्यत्वं, यदा त्वेको भागः सन्नपरश्चासन अपरश्चावक्तव्यस्तदा सदसवक्तव्यत्वमिति। न चैतेभ्यः सप्तविकल्पेभ्योऽन्यो विकल्पः संभवति, सर्वस्यैतेष्वेव मध्येऽन्तर्भावात् , इह च घटमाश्रित्य किश्चिद्भावना प्रदर्श्यते, तथाहि-ओष्ठग्रीवाकपालकुक्षिबुध्नादिमिः स्वपर्यायैः सद्भावेन विशेषितः कुम्भः कुम्भो भण्यते, सन् घट इति प्रथमो भङ्गो भवतीत्यर्थः १ तथा पटादिगतैस्त्वक्राणा-|| दिभिः परपर्यायैरसद्भावेन विशेषितोऽकुम्भो भवति, सर्वस्यापि घटस्य परपर्यायैरसत्त्वविवक्षायामसन् घट इति द्वितीयो भङ्गो भवतीत्यर्थः
२ तथा एकस्मिन् देशे स्वपर्यायसत्त्वेन अन्यत्र तु देशे परपर्यायासत्त्वेन विवक्षितो घटः संश्चासंश्च भवति, घटोऽघटश्च भवतीत्यर्थः ३ ४ तथा सर्वोऽपि घटः स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां विशेषितो युगपद्वक्तुमिष्टोऽवक्तव्यो भवति, स्वपरपर्यायसत्त्वासत्त्वाभ्यामेकेन ॥॥३४७॥
केनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद्वक्तुमशक्यत्वात् ४ तथा एकस्मिन् देशे स्वपर्यायैः सत्त्वेन विशेषितोऽन्यत्र तु देशे स्वप
Jain Education in
For Private Personel Use Only
Haw.jainelibrary.org