SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ यथा अस्त्यजीवः स्वतो नित्यः कालत इत्यादि सर्व भावनीयं, इत्यतो विंशतिर्नवभिर्गुणिता शतमशीत्युत्तरं क्रियावादिनां भवति ॥ ९१ ॥ | ।। ९२ ।। ९३ ।। इदानीमक्रियावादिनां चतुरशीतिसङ्ख्यभङ्गानयनोपायमाह – 'इहे 'त्यादिगाथाद्वयं, इह अक्रियावादिभेदानयनप्रक्रमे जीवादीनि पूर्वोक्तानि पुण्यपापवर्जितानि सप्त पदानि परिपाट्या पट्टिकादौ स्थाप्यन्ते तेषां च जीवादिपदानामधोभागे प्रत्येकं स्वपरशब्दद्विकं स्थाप्यते, स्वतः परत इति द्वे पदे न्यस्येते इत्यर्थः, असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः, तद्धर्मिसिद्ध्यापत्तेः, तस्यापि च स्वपर - शब्दद्विकस्याधस्तात्कालयदृच्छारूपपदद्वयसमेतमेतन्नियतिस्वभावेश्वरात्मलक्षणं पदचतुष्कं लिख्यते, कालयदृच्छानियतिस्वभावेश्वरात्मस्वरूपाणि पट् पदानि स्थाप्यन्त इत्यर्थः, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन एव, न केचिदपि क्रियावादिनः, ततः प्राग्यदृच्छा नोपन्यस्ता ।। ९४ ।। ९५ ।। अथ विकल्पाभिलापमाह - ' पढमे 'त्यादिगाथात्रयं नास्ति जीवः स्वतः कालत इति प्रथमो भङ्गः, तदनु नास्ति जीवः परतः कालत इति द्वितीयो भङ्गः, एतौ द्वौ च भङ्गौ कालेन लब्धौ एवं यदृच्छादिभिरपि पश्चभिः पदैः प्रत्येकं द्वौ द्वौ विकल्पौ प्राप्येते, सर्वेऽपि मिलिता द्वादश, अमीषां च विकल्पानामर्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति - यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः ?, उच्यते, इह ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किंतु यदृच्छया ते यह |च्छावादिनः तथा च एत एवमाहुः - न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः तथाप्रमाणेनाग्रहणात् तथाहि - शालूकादपि शालूको जायते गोमयादपि, अग्नेरप्यग्निर्जायते अरणिकाष्ठादपि जायते धूमादपि धूमोऽग्नीन्धनसंपर्कादपि कन्दादपि जायते कदली बीजादपि वटादयोऽपि बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः कचिदपि कार्यकारणभाव इति यदृच्छातः कचिदपि किंचिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिवेशयन्ति, एते च द्वादश विकल्पा जीव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy