________________
प्रव० सा
रोद्धारे तत्त्वज्ञा
नवि० ॥३४६॥
त्रिषष्ट्याधिकशतत्रयीपापण्डि
नाम् गा.११८८१२०६
10
-*-
स्वभावकृता मुद्गपक्तिरप्येष्टव्या, ततः सकलमेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति । तथा अस्ति जीवः स्वतो नित्यो नियतितः १ तथाऽस्ति जीवः स्वतोऽनित्यो नियतितः २ अस्ति जीवः परतो नित्यो नियतितः ३ अस्ति जीवः परतोऽनित्यो नियतितः४, नियतिवादिनो ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यदशादेते भावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भवन्ति, नान्यथा, तथाहि-यद्यदा यतो | भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत् , नियामका
भावात् , तत एवं कार्यनयत्यतः प्रतीयमानामेनां नियति को नाम निराकर्तुमलं ?, तथा चोक्तम्-"नियतेनैव रूपेण, सर्वे भावा | भवन्ति यत् । ततो नियतिजा ोते, तत्स्वरूपानुभेदतः ॥ १॥ यद्यदैव यतो यावत् , तत्तदैव ततस्तथा । नियतं जायते न्यायात् , क | एनां बाधितुं क्षमः ॥२॥" तथा अस्ति जीवः स्वतो नित्य ईश्वरतः १ अस्ति जीवः स्वतोऽनित्य ईश्वरतः २ अस्ति जीवः परतो नित्य ईश्वरतः ३ अस्ति जीवः परतोऽनित्य ईश्वरतः ४, ईश्वरवादिनो हि सर्व जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहजसिद्धज्ञानवैराग्यधमैंश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम्-"ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सह| सिद्धं चतुष्टयम् ॥ १॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वभ्रमेव वा ॥ २॥" इत्यादि । तथा अस्ति जीवः स्वतो नित्य आत्मनः १ अस्ति जीवः स्वतोऽनित्य आत्मनः २ अस्ति जीवः परतो नित्य आत्मनः ३ अस्ति जीवः परतोऽनित्य आत्मनः ४, आत्मवेदिनो हि विश्वपरिणतिरूपमात्मानमेवैकं प्रतिपन्नाः, यत उक्तम्-'एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥ तथा “पुरुष एवेदं सर्व, यद् भूतं यच भाव्य"मित्यादि, तदेवं पञ्चभिरपि चतुष्ककैर्मिलितविंशतिर्भङ्गा जाताः, एते च जीवपदेन प्राप्ताः, एवमजीवादिमिरप्यष्टभिः पदैः प्रत्येकं विंशतिर्विकल्पाः प्राप्यन्ते,
*
॥३४६॥
-%-5
*
en Education Interna
For Private sPersonal use Only
www.jainelibrary.org