SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ त्वात्, अन्यथा सर्वमव्यवस्थया भवेत् न चैतद् दृष्टमिष्टं वा, अपिच मुद्गादिपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपि मुद्रादिपतेर्भावप्रसङ्गः, न च तद्भवति, तस्माद्यत्कृतकं तत्सर्वं कालकृतमिति, यदाहुः -- 'न कालव्यतिरेकेण, गर्भबाल शुभादिकम् । यत्किचिज्जायते लोके, तदसौ कारणं किल ॥ १ ॥ किंच कालाहते नैव, मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥ २ ॥ " द्वितीयश्च भङ्गोऽयं अस्ति जीवः स्वतोऽनित्यः कालतः, एवमुक्तप्रकारेण परतोऽपि द्वौ भङ्गौ कर्तव्यो यथा - अस्ति जीवः परतो नित्यः कालतः, अस्ति जीवः परतोऽनित्यः कालतः, सर्वेषामपि हि पदार्थानां परपदार्थस्वरूपापेक्षया स्वस्वरूपपरिच्छेदः, यथा दीर्घत्वापेक्षया ह्रस्वत्वस्य ह्रस्वत्वापेक्षया च दीर्घत्वस्य इत्येवमेवात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वतः पूर्वेण च स्वत एव इति पदलब्धेन भङ्गद्विकेन युक्तावेतौ भङ्गौ चत्वारो भवन्ति, ते च कालपदेन लब्धाः, एवमनेन प्रकारेण स्वभावप्रमुखा अपि-स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुरचतुरो विकल्पान् प्राप्नुवन्ति, तथाहि - अस्ति जीवः स्वतो नित्यः स्वभावतः १ अस्ति जीवः स्वतोऽनित्यः स्वभावतः २ अस्ति जीवः परतो नित्यः स्वभावतः ३ अस्ति जीवः परतोऽनित्यः स्वभावतः ४, ते हि स्वभाववादिन एवमाहुः - इह सर्वे भावाः स्वभाववशादुपजायन्ते, तथाहि - मृदः कुम्भो भवति न पटादिः तन्तुभ्योऽपि पट उत्पद्यते न कुम्भादिः, एतच्च प्रतिनियतं भवनं तथास्वभावतामन्तरेण न घटते, तस्मात्सकलमिदं स्वभावकृतमवसेयं, अन्यच्च - आस्तामन्यत्कार्यजातं, इह मुद्गादिपक्तिरपि न स्वभावमन्तरेण भवितुमर्हति तथाहि - स्थालीन्धनकालादिसमग्रसामग्रीसम्भवेऽपि न काकटुकमुद्गानां पक्तिरुपलभ्यते, तस्माद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy