SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रव० सा-10मुमुक्षुणा-मुक्तिमार्गप्रवृत्तेनाभ्युपगन्तव्यं [ग्रन्थानं ३००] न ज्ञानमिति, किञ्च-भवेयुक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्तु त्रिषष्ट्यधिरोद्धारे पार्यते, परं यावता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं मिन्नमेव ज्ञानं प्रतिपन्नाः, ततो न निश्चयः कर्तुं शक्यते-किमिदं | कशतत्रयीतत्त्वज्ञा ज्ञानं सम्यगुत नेदमिति, यदुक्तम्-'सव्वे य मिहो मिन्नं नाणं इह नाणिणो जओ बिति । तीरइ तओ न काउं विणिच्छओ एवमेयन्ति पापण्डिनवि० ॥१॥" [ सर्वे च मिथो भिन्नं ज्ञानं इह ज्ञानिनो यतो ब्रुवते, शक्यते ततो न कर्तु विनिश्चय एवमेतदिति ॥१॥] तेषामज्ञानिकानां | नाम् सप्तषष्टि दाः, तथा विनयेन चरन्तीति वैनयिकाः-एते चानवधृतलिङ्गाचारशास्त्राः केवलं विनयप्रतिपत्तिप्रधानाः, एषां च द्वात्रिंशद्भेदा 15गा.११८८. ॥३४५॥ इति ॥ ८८ ॥ अथ 'यथोद्देशं निर्देश' इति न्यायात् क्रियावादिनामशीत्युत्तरशतसङ्ख्याभङ्गानयनोपायमाह-'जीवे'त्यादिगाथाद्वयं, १२०६ जीवादीनि नव पदानि-जीवअजीवआश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षलक्षणान्नव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य तेषामधः प्रत्येकं स्वतः परत इति शब्दौ स्थाप्येते, तयोरपि-स्वतः परत इति शब्दयोरधः प्रत्येक नित्यानित्यशब्दौ स्थाप्येते, ततोऽपि-नित्यानित्य| शब्दयोरधस्तादनुक्रमेण-परिपाट्या कालस्वभावनियतीश्वरात्मस्वरूपाणि पञ्च पदानि स्थाप्यन्ते ।। ८९ ।। ९० ॥ अथैतेषामेव भेदानामभिलापमाह-'जीवो' इत्यादिगाथात्रयं, इह अस्ति जीवः स्वतो नित्यः कालतः प्रथमो भङ्गो-विकल्पः, अस्य च विकल्पस्यायमर्थःइह-अस्मिन् जगति अस्ति-विद्यते खल्वयं जीव:-आत्मा स्वतः-स्वेन रूपेण, न तु परोपाध्यपेक्षया, हस्खत्वदीर्घत्वे इव, नित्यः-शाश्वतो, न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात् , कालवादिनो मतेन, कालवादिनश्च ते मन्तव्या ये कालकृतमेव सर्व जगन्मन्यन्ते, तथा च ते एवमाहुः-न कालमन्तरेण सहकारचम्पकाशोकादिकुसुमोद्गमफलानुबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ॥३४५॥ ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वा अवस्थाविशेषा घटन्ते, प्रतिनियतकालविभाग एव तेषामुपलभ्यमान STAR+-+C Jan Education For Private Personel Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy