________________
4%
%A5
%
___ 'असीई'त्यादिगाथा एकोनविंशतिः, न कर्तारमन्तरेण क्रिया-पुण्यबन्धादिलक्षणा सम्भवति, तत एवं परिज्ञाय तां क्रियामात्मसम
वायिनीं वदन्ति तच्छीलाश्च ये ते क्रियावादिन:-आत्माद्यस्तित्वप्रतिपत्तिलक्षणाः तेषामशीत्यधिकं शतं भवति, वक्ष्यमाणप्रकारेण अशी* त्यधिकशतसङ्ख्यास्ते इति भावः, तथा न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये बदशान्ति तेऽक्रियावादिनः-आत्मादिनास्तित्वप्रतिपत्तिलक्षणाः, तथा चाहुः-"क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया । भूतिषां
क्रिया सैव, कारकं सैव चोच्यते ॥ १॥” तेषां चतुरशीतिर्भवति, तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्ति तेन वा चरन्तीत्यज्ञानिकाः★ असंचिन्त्यकृतबन्धवैफल्यादिप्रतिपादनपराः, तथाहि ते एवमाहुः-न ज्ञानं श्रेयः तस्मिन् सति परस्परं विवादयोगेन चित्तकालुष्यादि
भावतो दीर्घतरसंसारप्रवृत्तेः, तथाहि-केनचित्पुरुषेणान्यथा देशिते वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातमानसस्तस्योपरि कलुषचित्तः तेन सह विवादमारभते, विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहकारतश्च प्रभूतप्रभूततराशुभकर्मबन्धसम्भवः, तस्माच्च दीर्घ दीर्घतरसंसारः, तथा चोक्तम्-'अन्नेण अन्नहा देसियंमि भावंमि नाणगब्वेणं । कुणइ विवायं कलुसियचित्तो तत्तो य से बंधो ॥१॥" [अन्येनान्यथा देशिते भावे ज्ञानगर्वेण । करोति विवादं कलुषितचित्तस्ततश्च तस्य बन्धः ॥ १॥] यदा पुनरज्ञानमाश्रीयते तदा नाहकारसम्भवो नापि परस्योपरि चित्तकालुष्यभावः ततो न कर्मबन्धसम्भवः, अपिच-यः सञ्चिन्त्य क्रियते कर्मबन्धः स दारुणविपाकः अत एवावश्यंवेद्यः, तस्य तीब्राध्यवसायतो निष्पन्नत्वात् , यस्तु मनोव्यापारमन्तरेण कायवचनकर्मवृत्तिमात्रतो विधीयते न तत्र मनसोऽभिनिवेशः ततो नासाववश्यवेद्यो नापि तस्य दारुणो विपाकः, केवलं अतिशुष्कसुधापङ्कधवलितभित्तिगतरजोराजिरिव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोमितोऽपयाति, मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्य भिनिवेशसम्भवात् , तस्मादज्ञानमेव
%25A
5
in Educh an inte
For Private & Personal use only
Bhiw.jainelibrary.org