________________
J
OSHOROSCARRORSCREENCoat
ईशाने च प्रत्येकमुत्कर्षत उपपातविरहकालश्चतुर्विंशतिर्मुहूर्ताः, इयमत्र भावना-भवनवास्यादिषु मध्ये प्रत्येकमेकस्मिन् बहुषु वा देवेषूत्पनेषु सत्सु अन्य उत्कृष्टमन्तरं चतुर्विशतिं मुहूर्त्तान् कृत्वा नियमतः समुत्पद्यते इति, जघन्यत उपपातविरहकालः सर्वेष्वपि भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानरूपेषु एकः समयः, किमुक्तं भवति ?-एतेषु पञ्चस्वपि स्थानेषु प्रत्येकमेकस्मिन् बहुषु वा समुत्पन्नेष्वन्यः समयमेकमन्तरं कृत्वा समुत्पद्यत इति, शेषः सर्वोऽप्युपपातविरहकालो मध्यमो वेदितव्य इति ॥ ६७ ॥ सनत्कुमारे कल्पे देवानामुत्कर्षत | उपपातविरहकालो नव दिनानि-रात्रिन्दिवानि विंशतिश्च मुहूर्ताः माहेन्द्रे द्वादश दिनानि दश च मुहूर्ताः ब्रह्मलोके सार्धानि द्वाविंशतिदिनानि लान्तके पञ्चचत्वारिंशद्दिनानि महाशुक्रेऽशीतिदिनानि सहस्रारे दिवसशतं-अहोरात्रशतं ॥ ६८ ॥ आनते प्राणते च प्रत्येकमुत्कर्षत उपपातविरहकालः सयेया मासाः, केवलमानतापेक्षया प्राणते प्रभूता वेदितव्याः, ते च वर्षादागेव, तथा आरणे अच्युते च प्रत्येक सङ्ख्येयानि वर्षाणि, नवरमत्राप्यारणापेक्षयाऽच्युते प्रभूतानि, तानि च वर्षशतादागेव, अतः परं अवेयकेपूत्कर्षत उपपातविरहकालं वक्ष्ये ॥ ६९ ॥ प्रतिज्ञातमेवाह-'हिडिमे'त्यादि, त्रिष्वपि अधस्तनमध्यमोपरितनप्रैवेयकत्रिकेषु यथासयेन सङ्ग्येयानि वर्षशतानि वर्षसहस्राणि वर्षलक्षाणि च विज्ञेयानि, तथाहि-अधस्तनौवेयकत्रिके उत्कृष्ट उपपातविरहकालः सयेयानि वर्षशतानि, तानि च वर्षसहस्रादारतः, मध्यमवेयकत्रिके सोयानि वर्षसहस्राणि, तानि च वर्षलक्षादर्वाक् , उपरितनप्रैवेयकत्रिके सत्येयानि वर्षलक्षाणि, तानि च वर्षकोट्या आरतो द्रष्टव्यानि, अन्यथा कोटीग्रहणमेव कुर्यादित्येवं सर्वत्र भावनीयं, इयं च व्याख्या हरिभद्रसूरिकृतसङ्ग्रहणीटीकानुसारतः, अन्ये तु सामान्येनैव व्याचक्षत इति ॥ ७० ॥ साम्प्रतमनुत्तरविमानेषु उपपातविरहकालमानमाह-'पलिये'त्यादि, विजयादिषुविजयवैजयन्तजयन्तापराजितरूपेषु चतुर्पु विमानेषूत्कृष्ट उपपातविरहकालोऽद्धापल्योपमासयेयभागः, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्स
EKA4AAAAAAACAX
En d
an teman
For Private
Personel Use Only
www.jainelibrary.org