________________
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
२०० देवोइतनावि| रहः गा.
१०७२ २०१संख्या गा. १०७३
॥३४॥
र्वार्थसिद्धे पल्योपमस्य सङ्ख्येयो भागः, तथा च प्रज्ञापना-सव्वट्ठसिद्धदेवा णं भंते ! केवइकालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं पलिओवमस्स संखेजइभाग"मिति, जघन्यतः पुनः सर्वेष्वपि-सनत्कुमारादिष्वनुत्तरान्तेषु उपपातविरहकाल एकः समय इति १९९ ॥ ७१ ॥ सम्प्रति 'उबट्टणाए विरहो'त्ति द्विशततमं द्वारमाह___ उववायविरहकालो एसो जह वण्णिओ य देवेसु । उचटणावि एवं सवेसि होइ विनेया॥७२॥
उपपतनमुपपातः-तदन्यगतिकानां सत्त्वानां देवत्वेनोत्पादः तस्य विरहकाल:-अन्तरकालः एष:-चतुर्विंशतिमुहूर्तादिक उत्कृष्टो जघन्यतश्च यथा देवेषु प्रागुपवर्णितः एवं-अनेनैव प्रकारेण सर्वेषां देवानामुद्वर्तनाऽपि विज्ञेया, तद्यथा-भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवानामुत्कृष्ट उद्वर्तनाविरहकालश्चतुर्विशतिर्मुहूर्ताः, सनत्कुमारे नव दिनानि विंशतिश्च मुहूर्ताः माहेन्द्रे द्वादश दिनानि दश च मुहूर्ताः ब्रह्मलोके सार्धा द्वाविंशतिर्दिनाः लान्तके पञ्चचत्वारिंशद्दिनाः शुक्रे अशीतिर्दिनाः सहस्रारे दिनशतं आनतप्राणतयोः सङ्ख्येया| मासाः आरणाच्युतयोः सङ्ख्येयानि वर्षाणि अधस्तनेषु त्रिषु अवेयकेषु सङ्ख्ययानि वर्षशतानि मध्यमेषु त्रिषु सङ्ख्येयानि वर्षसहस्राणि उपरितनेषु त्रिषु सङ्ख्येयानि वर्षलक्षाणि विजयादिषु चतुर्पु पल्योपमासङ्ख्येयभागः सर्वार्थसिद्धे च पुनः पल्योपमसङ्ख्येयभागः, जघन्यतः पुनः सर्वेषामप्युद्वर्तनाविरहकाल एकः समय इति २०० ॥ ७२ ॥ इदानीं 'इमाण संख'त्येकोत्तरद्विशततमं द्वारमाह___एको व दो व तिन्नि व संखमसंखा य एगसमएणं । उववजंतेवइया उच्चतावि एमेव ॥७३॥
भवनवास्यादिषु प्रत्येकमेकस्मिन् समये जघन्यतः एको द्वौ वा त्रयो वा उत्पद्यन्ते, उत्कर्षतः सङ्ख्याता असङ्ख्याता वा, केवलं सहसारादूर्द्ध सर्वत्रोत्कर्षतः सङ्ख्याता एव वक्तव्याः नासङ्ख्यावाः, यतो मनुष्या एव सहस्रारादूई गच्छन्ति न तिर्यचो, मनुष्याश्च
॥४०॥
Jan Education in
For Private
Personel Use Only