________________
न
मानवासिपर्यन्ता अङ्गुलासङ्ख्येयभागमात्रं क्षेत्रं पश्यन्ति, तथा चावश्यकचूर्णि:-"वेमाणिया सोहम्माओ आरम्भ जाव सव्वट्ठसिद्धगा देवा ताव जहन्नण अंगुलस्स असंखेजइभागं ओहिणा जाणंति पासंति,” नन्वङ्गुलासङ्ख्येयभागमात्रक्षेत्रप्रमितोऽवधिः सर्वजघन्यो
भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु, यदुक्तं-उक्कोसो मणुएसु मणुस्सतेरिच्छएसु य जहन्नो।' इति [ उत्कृष्टो मनु४ाव्येषु मनुष्यतिर्यक्षु च जघन्यः ] तत्कथमिह वैमानिकानां सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽ
वधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु देवभवप्रत्ययजः, ततो न कदाचिद्दोषः, यदाह जिनभद्रगणिक्षमाश्रमणः-"वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ । उववाओ परभविओ तब्भवजो होइ तो पच्छा ॥ १॥ [वैमानिकानामङ्गुलासंख्यभागो जघन्यतो भवति । औपपातिकः ( उपपाते) पारभविकः तद्भवजो भवति तत् पश्चात् ॥ १॥] पारभविकत्वाचायं सूत्रकृता नोक्त इति ॥ ६४ ॥ उक्तं वैमानिकानामधस्तिर्यगूर्द्ध चावधिक्षेत्रं, अथ सामान्यतः शेषदेवानामाह-'संखेजे'|त्यादि, देवानां-भवनपतिव्यन्तरज्योतिष्काणामर्धसागरोपमप्रमाणे किञ्चिदूनायुषि सति संख्येयान्येव योजनानि अवधिपरिच्छेद्यक्षेत्र, ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनः असङ्ख्येयानि योजनानि, केवलमायुर्वृद्ध्या योजनासङ्ख्यातकस्यापि वृद्धिर्वाच्या, जघन्यं तु पुनरवधिक्षेत्रं पञ्चविंशतियोजनानि, तानि च येषां सर्वजघन्यं-दशवर्षसहस्रप्रमाणं आयुस्तेषामेव भवनपतिव्यन्तराणां द्रष्टव्यानि न शेषाणां, आह च भाष्यकृत्-"पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि'मिति [पञ्चविंशतिर्योजनानि दशवर्षसाहस्रिका स्थितिर्येषां ] ज्योतिष्काः पुनरसङ्ख्येयस्थितिकत्वाजघन्यतोऽपि सङ्ख्येययोजनप्रमितान् सङ्ख्येयान् द्वीपसमुद्रानवधिज्ञानतः पश्य|न्ति, उत्कर्षतोऽपि तानेव, केवलमधिकतरान् , उक्तं च प्रज्ञापनायाम्-"जोइसिया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ?,
Jan Education International
For Private
Personal Use Only
www.jainelibrary.org