________________
मिकाः कृष्णलेश्याः, तथा ज्योतिष्केषु सौधर्मेशानयोश्च देवास्तेजोलेश्याका ज्ञातव्याः, तथा सनत्कुमारमाहेन्द्रब्रह्मलोकाख्येषु त्रिषु कल्पेषु देवाः पद्मलेश्याकाः, ततो-ब्रह्मलोकात्परं-ऊर्द्ध लान्तकादिषु अनुत्तरविमानान्तेषु देवाः शुक्ललेश्या ज्ञातव्याः, सर्वा अपि लेश्या यथोत्तरस्थानं विशुद्धविशुद्धतरा बोद्धव्याः, एताश्च भावलेश्याहे तवो भवस्थिताः कृष्णादिद्रव्यरूपा द्रव्यलेश्या एवेह प्रतिपत्तव्याः न |भावलेश्याः, तासामनवस्थितत्वात् , नापि बाह्यवर्णरूपा, बाह्यवर्णस्य देवानां प्रज्ञापनादौ पार्थक्येनोक्तत्वात् , एतच्च नारकलेश्याद्वारे प्रागेवोक्तं, भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं षडपि भवन्ति, तथा च तत्त्वार्थमूलटीकायां हरिभद्रसूरि:-"भावलेश्याः। षडपीष्यन्ते देवानां प्रतिनिकाय"मिति १९७ ॥ ५९॥ ६० ॥ इदानीं 'ओहिनाणं'त्यष्टनवत्यधिकशततमं द्वारमाह
सक्कीसाणा पढमं दोचं च सणंकुमारमाहिंदा । तच्चं च बंभलंतग सुकसहस्सारय चउत्थि ॥१॥ आणयपाणयकप्पे देवा पासंति पंचमी पुढवीं । तं चेव आरणचुय ओहिणाणेण पासंति ॥ २॥ छलुि हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला । संभिन्नलोगनालिं पासंति अणुत्तरा देवा ॥६३ ॥ एएसिमसंखेजा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उहुंच सकप्पथूभाई ॥ ६४ ॥ संखेज्जजोयणाई देवाणं अद्धसागरे ऊणे । तेण परमसंखेजा जहन्नयं पन्नवीसं तु ॥६५॥ भवणवइवणयराणं उर्दु बहुओ अहो य सेसाणं । जोइसिनेरइयाणं तिरियं ओरालिओ चित्तो॥६६॥ 'सक्की'त्यादिगाथाषटुं, शक्रेशानौ-सौधर्मेशानकल्पेन्द्रौ उपलक्षणमेतत् इन्द्रसामानिकादयश्वोत्कृष्टायुषः, एवमन्यत्राप्युपलक्षणव्याख्यानं
SANEL-
RECAUTARIES
Jain Education Intematika
For Private & Personel Use Only
www.jainelibrary.org