SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ मुदिता गतमपि कालं न जानन्ति ॥ १ ॥ ] यास्तु मनुष्यक्षेत्राद्वहिद्वपेषु समुद्रेषु च व्यन्तराणां नगर्यस्ता जीवाभिगमादिशास्त्रेभ्योऽवसेयाः, तेभ्योऽपि व्यन्तरनगरेभ्यः सङ्ख्येयगुणानि ज्योतिष्काणां ज्योतिष्कदेवानां विमानानि ॥ ५० ॥ सम्प्रति वैमानिकदेव विमानानां सङ्ख्यामाह - 'बत्तीसे' त्यादि गाथाचतुष्कं ब्रह्मलोकाद्- ब्रह्मलोकचरमपर्यन्तादारत:- अर्वाक् किमुक्तं भवति ? - त्रह्मलोकमभिव्याप्य एषा विमानसा भवति, तद्यथा - सौधर्मे कल्पे द्वात्रिंशद्विमानानां शतसहस्राणि ईशानेऽष्टाविंशतिः सनत्कुमारे द्वादश माहेन्द्रेऽष्टौ ब्रह्मलोके चत्वारि ॥ ५१ ॥ तथा - 'पंचासेत्यादि, अत्रापि पूर्वार्धे कल्पक्रमेण सङ्ख्यापदयोजना, लान्तके पश्चाशद्विमानानां सहस्राणि महाशुक्रे चत्वारिंशत् सहस्रारे षट् सहस्राः, तथा आनतप्राणतयोर्द्वयोः समुदितयोश्चत्वारि विमानशतानि तथा आरणाच्युतयोर्द्वयोः समुदितयोस्त्रीणि विमानशतानि ॥५२॥ तथा - ' एगारे 'त्यादि, अधस्तनेषु त्रिषु ग्रैवेयकेषु समुदितेषु विमानानामेकादशोत्तरं शतं मध्यमे मैवेयकत्रिके समुदिते सप्तोत्तरं शतं उपरितनयैवेयकत्रिके समुदिते शतमेकं, सर्वान्तिमप्रतरे तु विजयादीनि पश्चैवानुत्तरविमानानि ॥ ५३ ॥ अथ विमानानां सर्वसङ्ख्यामाह - 'चुलसीई 'त्यादि, अनन्तरगाथात्रयाभिहितानां विमानानामेषा सर्वसङ्ख्या- चतुरशीतिः शतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीति ( ८४९७०२३ ) १९५ ॥ ५४ ॥ सम्प्रति 'देहमाणं'ति षण्णवत्यधिकशततमं द्वारमाह Jain Education International भवणवण जोइसोहम्मीसाणे सत्त हुंति रयणीओ । एक्केक्कहाणि सेसे दुदुगे य दुगे चउक्के य ॥५५॥ गेविजे दोन य एगा रयणी अणुत्तरेसु भवे । भवधारणिज एसा उक्कोसा होइ नायवा ॥ ५६ ॥ सवेसुक्कोसा जोयणाण वेडविया सयसहस्सं । गेविज्जणुत्तरेसुं उत्तरवेउचिया नत्थि ॥ ५७ ॥ अंगुअसंखभागो जहन्न भवधारणिज्ज पारंभे । संखेज्जा अवगाहण उत्तरवेउधिया सावि ॥ ५८ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy