________________
अव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ३३६ ॥
यमेगं वरिम | पंचेव अणुत्तरविमाणा ॥ ५३ ॥ चुलसीई सयसहस्सा सत्ताणउई भवे सहस्साइं । तेवीसं च विमाणा विमाणसंखा भवे एसा ॥ ५४ ॥
भवनवासिनां देवानां दशत्वपि निकायेषु सम्पिण्ड्य चिन्त्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च शतसहस्राणि - लक्षाः भवन्ति ७७२००००० एष भवनपतीनां भवनसमासो - भवनसर्वसङ्ख्या इति विजानीयात्, एतानि च अशीतिसहस्राधिकलक्षयोजनबाहल्याया रत्नप्रभाया अध उपरि च प्रत्येकं योजनसहस्रमेकं मुक्त्वा शेषेऽष्टसप्तति सहस्राधिक लक्ष योजनमाने मध्यभागेऽवगन्तव्यानि, अन्ये त्वाहु:-नवतेयोजन सहस्राणामधस्ताद्भू वनानि, अन्यत्र चोपरितन मधस्तनं च योजन सहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति ॥ ४७ ॥ सम्प्रति भवनवासिनामेव प्रतिनिकायं भवनसङ्ख्यामाह – 'च' इत्यादि, असुराणां - असुरकुमाराणां दक्षिणोत्तरदिग्भाविनां सर्वसङ्ख्यया भवनानि चतुःषष्टिः शतसहस्राणि - उक्षा भवन्ति, एवं नागकुमाराणां चतुरशीतिर्लक्षाः कनकानां - सुवर्ण| कुमाराणां द्विसप्ततिर्लक्षाः वायुकुमाराणां षण्णवतिलक्षाः द्वीपकुमार दिकुमारोदधिकुमार विद्युत्कुमारस्त नितकुमाराग्निकुमाराणां षण्णामपि | दक्षिणोत्तरदिग्वर्तिलक्षणयुग्मरूपाणां प्रत्येकं षट्सप्तति: षट्सप्ततिर्लक्षा भवन्ति भवनानां एषां च सर्वेषामप्येकत्र मीलने प्रागुक्ताः सङ्ख्या भवन्ति ॥ ४८ ॥ ४९ ॥ सम्प्रति व्यन्तरनगरव कव्यतामाह – 'इहेत्यादि, इह - तिर्यग्लोके रत्नप्रभायाः प्रथमे योजनसहस्रे रत्नकाण्डरूपे अध उपरि च प्रत्येकं योजनशतविरहिते वनचराणां त्र्यन्तराणां रम्याणि - रमणीयानि भूमौ भवानि भौमानि - भूम्यन्तर्वर्ती नि नगराण्य सङ्ख्यातानि सन्ति, रम्यता चैतेषु नित्यमुदितैर्व्यन्तरैर्गतस्यापि कालस्यावेदनात्, यदाह - " तर्हि देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचं सुहिया पमुइया गयंपि कालं न याणंति ॥ १ ॥” [ तत्र देवा व्यन्तरा वरतरुणीगीतवादित्ररवेण । नित्यं सुखितप्र
Jain Education International
For Private & Personal Use Only
१९५ भव
नपत्यादीनां भवना
नि गा. ११४७-५४
॥ ३३६ ॥
www.jainelibrary.org