________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३३५ ॥
Jain Education In
त्रिंशत्सागरोपमाणि, तथा सर्वार्थसिद्धे त्रयस्त्रिंशत्सागरोपमाण्यजघन्योत्कृष्टा स्थितिरिति ॥ ४४ ॥ अथ वैमानिकदेवानामेव जघन्यां स्थितिमाह - 'पलिय 'मित्यादि, इह यथाक्रमं पदसम्बन्धात् सौधर्मे कल्पे एकं पल्योपमं ईशाने तदेव किश्वित्समधिकं जघन्या स्थितिः, तत ऊर्द्ध सनत्कुमारादिषु चैवेयकानुत्तर विमानावसानेषु अधः कल्पस्थितिः - अधोवर्त्तिनः कल्पस्य वा उत्कृष्टा स्थिति: उपर्युपरिवर्त्तिमि सैव जघन्या स्थितिः, अनेन च क्रमेण तावत्प्रतिपत्तव्यं यावदेकत्रिंशदतराणि, तथाहि - यैव सौधर्मे सागरोपमद्वयरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि सनत्कुमारे जघन्या, यैव चेशाने सातिरेकसागरोपमद्वयस्वरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि माहेन्द्रे जघन्या, सनकुमारोत्कृष्टस्थितिस्तु सागरोपम सप्तकलक्षणा तदुपरिवर्तिनि ब्रह्मलोके जघन्या, तथा चोक्तं प्रज्ञापनायाम् — 'बंभलोए कप्पे देवाणं केवइयकालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं सत्त सागरोवमाई” ति, तत्त्वार्थभाष्ये तु या माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या भवतीत्युक्तं, ब्रह्मलोकोत्कृष्टस्थितिस्तु दशसागरोपमात्मिका लान्तके जघन्या, लान्तकोत्कृष्टस्थितिरपि चतु| देशसागरोपमरूपा महाशुक्रे जघन्या, तदुत्कृष्टस्थितिस्तु सप्तदशसागरोपमस्वरूपा सहस्रारे जघन्या, तदुत्कृष्टस्थितिः पुनरष्टादशसागरोपमलक्षणा आनते जघन्या, तदुत्कृष्टस्थितिस्त्वेकोनविंशतिसागरोपमस्वरूपा प्राणते जघन्या, तदुत्कृष्टस्थितिरपि विंशतिसागरोपमात्मिका आरणे जघन्या, तदुत्कृष्टस्थितिस्त्वेकविंशतिसागरोपमस्वरूपा अच्युते जघन्या, तदुत्कृष्टस्थितिस्तु द्वाविंशतिसागरोपमरूपा अधस्तनाधस्तनग्रैवेयके जघन्या, एवमेकैकं सागरोपमं वर्धयता तावन्नेयं यावदनुत्तरचतुष्के - विजयवैजयन्तजयन्तापराजितरूपे एकत्रिंशत्सागरोपमाणि जघन्या, स्थितिः, सर्वार्थसिद्धे पुनर्जघन्या स्थितिर्नास्ति, अजघन्योत्कृष्टायास्त्रयस्त्रिंशत्सागरोपमरूपाया एव स्थितेस्तत्राभिधानादिति ॥४५॥ सम्प्रति वैमानिकदेवीनां जघन्यामुत्कृष्टां च स्थितिमाह - 'सपरी' त्यादि, इह वैमानिकदेवीनामुत्पत्तिः सौधर्मेशानयोरेव ताश्च द्विधा
For Private & Personal Use Only
१९४ भवनपत्यादी
नांस्थितिः
गा.
११२८-४६
॥ ३३५ ॥
w.jainelibrary.org